[ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ॥ नित्यतृप्ताग्रयाय्याश्रिते निर्तृता प्राणिनो रोगशोकादिना नेक्षिताः ।। दस्युपीडोज्झिताः स्वस्वधर्मे रताः कालवर्षी स्वराण्मेदिनी कामसूः ॥ ३५ ॥ तदिहाऽऽलस्यमपास्य विचेतुं निरवधिसंसृतिजलधेः सेतुम् ।। देशिकवरपदकमलं यामो न वृथाऽन्नंहस्समत्र नयामः ।। ३६ ॥ इति जलरुहपदवचनं सर्वे मनसि निधाय निराकृतगवें ॥ कांश्चित्तत्र निवेश्य शरीरं रक्षितुमन्ये निरगुरुदारम् ॥ ३७ ॥ ते चिन्वन्तः शैलाच्छैलं विषयाद्विषयं भुवमनुवेलम् ॥ प्रापुर्धिकृतविबुधनिवेशा न्स्फीतानमरकनृपतेर्देशान् ।। ३८ ।। ३८५ नन्वेवमपि राज्ञां बहुत्वात्कथमस्य देशस्य राज्ञः शरीरे प्रविष्ट इति विज्ञेयमिति चेत्तत्राऽऽह । नित्यतृप्ताग्रगामिनाऽस्मदुरुणाऽऽश्रिते देशे पाणिन आनन्दिता यतो रोगशोकादिना नावेक्षिता यतश्चोरपीडाविनिर्मुक्ताः स्वस्वधर्मे रताश्च स्युः स्वराडिन्द्रः कालवर्षी स्यादूमिश्च कामसूः स्यात् ।॥३५॥ [कामेति । वाञ्छितफलप्रदा] ॥३५॥ तत्तस्मादस्मिन्काल आलस्यं विहायानाद्यनन्तसंसारसमुद्रस्य सेतुं देशिकवरचर णारविन्दं विचेतुं गच्छामोऽस्मिन्देशे वृथा कालं न नयाम: । ‘मात्रासमकं नवमो ल्गन्तम्’ ॥ ३६ ॥ इत्येवं पद्मपादस्य वचनं निराकृतगर्वे मनास सर्वे निधाय कांश्चिदुदारं गुरुशारीरं रक्षितुं तस्मिन्स्थाने निवेश्यान्ये निर्गताः ॥ ३७ ॥ ते पर्वतात्पर्वतं देशाद्देशं भूमिनिशं चिन्वन्तो विकृता देवानां निवेशा यैस्तान्स्फी तानमरकदृपतेर्देशान्प्रापुः प्राप्तवन्तः ॥ २८ ॥
पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३८३
दिखावट