पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः १० ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । मत्र्यानां निजपादपङ्कजनुषामाचार्य वाचा यया रुन्धानो मतिकल्मषं त्वमिह किंकुर्वाणनिर्वाणया ।। द्राङ्नाऽऽयास्यसि चेत्सुधीकृतपरीहासस्य दासस्य ते दुःखान्तो न भवेदितीङय स पुनर्जानीहि मीनीहि मा ॥ २९ ॥ इति खेदमुपेयुषि मित्रजने प्रतिपन्नयतिक्षितिभृन्महिमा । निजगाद सरोरुहपाद इदम् ॥ ३० ॥ पर्याप्त नः लवयमुपत्यात्र सस्वाय कृत्वोत्साहं भूमिमशेषामपिधानात् ॥ यद्वद्देवं देवमनुष्यादिषु गृढम् ।। ३१ ।। ३८३ः कास्तेषां दम्भस्य कुभिरिर्भक्षकः कदा भवसि । पृथ्वी वृत्तम् ॥ २८ । [ क्षपेति । क्षपान्धसदृशान्य प्रकाशशालित्वाद्रात्र्यन्धसमानि यानि भेदवादिमतानि तत्र ये पान्थदुष्कथकाः पान्थवन्मुमुक्षु प्रति दुर्मार्गप्रदर्शकाः सकलभेदवादिनस्तेषां ये दम्भा स्तेषां कुक्षिभरिर्भक्षक इत्यर्थः ] ।। २८ ।। कश्चित्त्वतिविह्वलः पन्नवश्यं दर्शनं देहत्याशयेनाऽऽह । हे अभाचर्येह जीवद्द ३शायामेव किंकुर्वाणं किंकरतां प्राप्त निर्वाणं यस्यास्तया यया वाचा निजपादपद्मजुषां मत्यनां बुद्विकल्मषं समूलं रुन्वानस्त्वं शीघ्र नाऽऽयास्यासि चेतहिं सुबुद्धिभिः कृतः परिहासो यस्य तस्य ते दासस्य मे दुःखान्तो न भवेदिति हे स्तुत्य स पुनस्त्वं जानीहि मां मा मनीहि न घातय । शार्दूलविक्रीडितं वृत्तम् ॥ २९ ॥ इत्येवं मित्रजने खेदमुपेयुषि सति परिज्ञातो यतिराजस्य स्वगुरोर्महिमा येन स पद्मपादोऽर्थवता वचनेन शोकं शमयन्निदं वक्ष्यमाणमुवाच । तोटकं वृत्तम् ॥ ३० ॥ यदुवाच तदाह । नोऽस्माकं व्यं पर्याप्तमतो हे सखाय उपेत्य मिलित्वोत्साहं कृत्वा सर्वा भूमिमभिधानातिरोधानादन्वेष्यामोऽथानन्तरं भूववरराiण पातालानि तदनन्तरं दिवं देवमनुष्योरगादिगृढं महादेवमिव । ‘वेदै रम्त यमगा मत्तम यूरम्' ॥ ३१ ॥ [ कैब्यं दैन्यम् । उपेत्य प्राप्य । नोऽस्माकम् । पर्याप्तमलं दैन्य भितः परं नैव कर्तव्यमित्यर्थः ] ।। ३१ ॥ १ क. "नादेवान्वे'।