पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५८ श्रीमच्छवकरदिग्विजयः । इति पृष्टभाविचरित: प्रमुवा क्षणमात्रमीलितविलोचनकः ।। सकलं क्रमेण कथयन्निदम प्यपरं जगाद मुरहस्यमपि ।। ५० ।। निगमाध्वनि प्रबलबाह्यमतै रमितैरधिक्षिति खिले दुहिणः ॥ पुनरुद्दिधीषुरवतीर्य स्वलु प्रतिभाति मण्डनकवीन्द्रमिषात् ॥ ५१ ॥ तमवाप्य रुद्रमिव साऽद्रिमुता दुहिता तवाच्युतमिवाब्धिमुता । अनुरुपमाहृतसमस्तमस्वा ससुता भविष्यति चिरं मुदिता ॥ ५२ ॥ अथ नष्टमौपनिषदं प्रबले कुमतेः कृतान्तमिह साधयितुम् ।। ननु मानुषं वपुरुपेत्य शिव समलंकरिष्यति धररां स्वपदैः ॥ ५३ ॥ [ सर्गः ९] वा प्राप्स्यति पतिं कीदृशामुपैष्यति तथा प्रभृतवनधान्यवती सती यज्ञानापि करिष्याति ।। ४९ । [ क्रतूनित्यत्रापि कतिशब्दो ज्ञेयः ] ।। ४९ ।। इत्येवं प्रसुवा जनन्या पृष्टं भावि चरितं यस्मै स क्षणमात्रं मीलिते विलोचने । विलोचनके नेत्रे येन स क्रमेण सकलं कथयन्निदमप्यपरमतिगोप्यमपि जगाद ।। ५० ।। वेदबाह्य मतं येषां कर्मधारयो वा प्रबलैश्च तैर्बह्यमतैरसंख्यातैर्वेदमार्गेऽधिक्षिति भूमौ खैिल उच्छिन्ने सति दुहिणो ब्रह्मा वेदमार्गमुद्धर्तुमिच्छुर्मण्डनकवीन्द्रव्याजेनाव तीर्य किल भाति प्रकाशते ॥ ५१ ॥ [ दुहिण: 'वाताऽब्जयोनिर्दूहिणः' इत्यमराच तुरानन इति यावत् ] ।। ५१ ।। पर्वतसुता पार्वती रुद्रमिव समुद्रसुता लक्ष्मीर्विष्णुमिव सा तव सुता तं दुहिणाव तारमनुरूपं मण्डनमवाप्याऽऽहृताः सर्वे मखा यज्ञा यया सुतैः सह वर्तमाना च सती चिरकालं मुदिता भविष्यात ॥ ५२ ॥ अथानन्तरमिहास्मिलोके प्रबलैः कुमतैर्नष्टमोपनिषदं कृतान्तं सिद्धान्तं साधयितुं ननु शिवो मानुषं वपुरवाप्य स्वचरणन्यासैर्भूमिमलंकरिष्यति ॥ ५३ ॥ [ नष्टं ध्वस्त १ क. ख. 'खिले छिन्ने'।