पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ९ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । ४५ मयि जातु मातुरुपकण्ठजुषि प्रभया तडित्प्रतिभटोचजट: ॥ सितभूतिरुषितसमस्ततनुः श्रमणोऽभ्ययादपरसूर्य इव ॥ ४६ ॥ परिगृह्य पाद्यमुखयाऽर्हणगया रचिताञ्जलिर्नमितपूर्वतनुः । जननी तदाऽऽत्तवरिवस्यममुं मुनिमन्वयुङ् मम भाव्यस्विलम् ॥ ४७ ॥ भगवन्न वेद्मि दुहितुर्मम भा व्यखिलं च वेत्ति तपसा हि भवान् । प्रणते जने हि सुधियः कथय त्यपि गोप्यमार्यसदृशाः कृपया ॥ ४८ ॥ कियदायुराप्स्यति मुतान्कति वा दयितं कथंविधमुपैष्यति च । अथ च क्रतूनपि करिष्यति मे दुहिता प्रभूतधनधान्यवती ।। ४९ ।। एवं तापसमुखाद्विदितं वृत्तान्तं श्रावयितुमभिमुखठिय तं श्रावयति । जातु कदाचिन्मातुरुपकण्ठजुषि मातृसामीप्यं सेवमानायां माय सत्यां प्रभया विद्युत्प तिभटा जटा यस्य सितभूत्या धेतभस्मना रूषिता लिप्ता तनुः शरीरं यस्य सोऽपरसूर्य इव कश्चित्तपस्व्यभ्ययादभ्यागमत् ॥ ४६ ॥ [ श्रमणः 'श्रमणो यातिभेदे ना' इति मेदिन्यास्तपस्विविशेष इत्यर्थः ] ।। ४६ ।। तदा पाद्याद्यया पूजया मुनिं परिगृह्य रचिताञ्जलिर्नमिता पूर्वतनुः शिरोभागो यया सा जनन्यात्ता वरिवस्या पूजा येन तममुं मुनिं मम भविष्यमखिलमन्वयुङ्कः पृष्टवती ।। ४७ । [ परिगृह्य 'परिग्रहः परिजने पत्न्यां स्वीकारमूलयोः इति मेदिन्याः स्वेप्सितदातृत्वेन स्वीकृत्थेत्यर्थः ] ।। ४७ ।। हे भगवन्स्वदुहितुर्भविष्यमहं न जानामि भवान्हि तपसा वेत्यार्यसदृशा नम्रत्रे जने गोप्यमपि छपया कथयन्त्येव ।। ४८ ॥ एवं तं संमुखीकृत्य गुह्य पृच्छति । मे दुहिता कियदायुः प्राप्स्यति सुतान्कतेि १ की . यात् ॥ ४६ ॥ ३६५७ त ।