पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३० श्रीमच्छकरदिग्विजयः । किमेष भेदः परमार्थभूत प्रसाध्यते काल्पनिकोऽथवाऽऽद्ये ।। दृष्टान्तहानिश्चरमे तु विद्व क्रूरीकृतोऽस्माभिरसाधनीयः ॥ ३ ॥ स्वप्रत्ययाबाध्यभिदाश्रयत्वं साध्यं घटादौ च तदस्ति योगिन् ॥ त्वयाऽऽत्मबोधेन भिदा न बाध्ये त्यनभ्युपेतेति न कोऽपि दोषः ॥ ४ ॥ ननु स्वशब्देन सुखादिमान्वा विवक्षितस्तद्विधुरोऽथवाऽऽत्मा । आद्येऽस्मदिष्टं न तु साध्यमन्ते दृष्टान्तहानिः पुनरेव ते स्यात् ॥ १०५ ।। [ सर्गः ८ ] वदिति । उपलक्षणमेतद्वह्मधर्मिकभेदप्रतियोगित्वस्यापि । असर्वज्ञत्वादिति पदार्थत्वादि त्यस्याप्युपलक्षणं पदं ब्रह्म तदर्थत्वात्तच्छेषत्वात्तन्नियम्यत्वादिति वा । , उपजाति वृत्तम् ॥ २ ॥ [ अयं नित्यापरोक्ष आत्मा ] ॥ २ ॥ मण्डनोक्तमनुमानं विकल्प्य दूषयति भगवान्भाष्यकारः । किमेष ब्रह्मनिरूपितो भेद परमार्थभूतः पसाध्यतेऽथवा काल्पनिकः । भाघे दृष्टान्तहानिर्घटादेरुक्तभेदवत्वतत् तियोगित्वयोरभावात् । अन्त्ये तु स्वीकृतोऽस्माभिर्न साधनीयः । परस्परप्रतियोगिकका ल्पनिकव्यावहारिकभेदस्यास्माभिरप्यङ्गीकृतत्वात्सिद्धसाधनमित्यर्थः । एतेन जीवस्य ब्रह्मणो भेदाभावे तन्नियम्यत्वानुपपत्तिरपि मत्युक्ता । नियम्यत्वादेः स्वसमानसत्ताकनिय श्रादिभेदसापेक्षत्वात्तस्य च स्वीकारात् ॥ ३ ॥ एवमुक्तो मण्डन आह । ब्रह्मनिरूपितस्वज्ञानाबाध्यभेदवत्त्वं साध्यं तच घटादा वस्ति । आत्मज्ञानेन घटादिगतभेदस्याबाध्यत्वात् । हे योगिन्नात्मज्ञानेन न बाध्या 1भन्दा त्वयाऽनभ्युपेताऽऽत्मज्ञानाचाध्यो भेदस्त्वया नाङ्गीकृतः स चास्माभिः साध नीय इति हेतोर्न कोऽपि दृष्टान्तहान्यादिरूपो दोषः ॥ ४ ॥ [ आत्मबोवेन ब्रह्मा त्मैक्यसाक्षात्कारेणेत्यर्थः । भिदा भेदः। बाध्येति नानभ्युपगता किं त्वभ्युपगतैवेत्यर्थः । अत्रायं प्रयोगः । ब्रह्म स्वप्रमाबाध्यभेदवत्पदार्थत्वाद्धटवदिति । एवं च सिद्धान्ति नस्तव तु ब्रह्मा स्वमाबाध्यभेदवदधिष्ठानत्वाच्छुक्त्यादिवदित्यनुमानस्य सत्पतिपक्षत्व मेव मयोच्यते ] ॥ ४ ॥ एतदपि विकल्प्य दूषयति भगवान् । ननु स्वशब्देन सुखादिमाञ्जविपदवाच्य कत्रदिरूप आत्मा विवक्षितोऽथवा सुखादिरहितः । भाघे सुखदुःखादिमतः शरी