पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ८] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलित । स्याद्वा विरोधस्तदपि प्रवृत्तं प्रत्यक्षमयेऽबलमेव बाध्यम् ॥ ३२९ श्रुत्या ह्यपच्छेदनयोक्तरीत्या ॥ १०१ ॥ नन्वेवमप्यस्त्यनुमानबाधोऽ भेदश्रुतेः संयमिचक्रवर्तिन् ॥ घटादिवङ्गह्मनिरुपितेन भेदेन युक्तोऽयमसर्ववित्वात् ॥ २ ॥ विरोधमङ्गीकृत्यापि परिहरति । स्याद्वा विरोधस्तैदाऽप्यये प्रथमं प्रवृत्तं बलहीनं भेदपत्यक्षमेव प्राबल्यवत्याऽभेदवादिश्रुत्या चरमप्रवृत्या बाध्यमपच्छेदन्यायेनोक्तया रीत्याऽपच्छेदनयेति वा । तथा च षष्ठं पारभर्ष सूत्रम् । पौर्वापर्ये पूर्वेदैौर्बल्यं पछ तिवदिति ज्योतिष्टोमे बहिष्पवमानार्थ हविर्वानान्निर्गच्छतामृत्विग्यजमानानामध्वर्यु प्रस्तोताऽन्वारभते प्रस्तोतारमुद्रातोद्रातारं प्रतिहर्तेत्यादिनाऽन्वारम्भणं विहितं तद्विच्छे दनिमित्तं प्रायश्चित्तं श्रूयते यद्युद्भाताऽपच्छिद्येतादक्षिणं तं यज्ञमिष्ट्रा तेन पुनर्यजेत तत्र तद्दद्याद्यत्पूर्वस्मिन्दास्यं स्याद्यदि प्रतिहर्ताऽपच्छिद्येत सर्ववेदसं दद्यादिति । तत्रोद्रातृप्रतिहत्रः क्रमेण विच्छेदे विरुद्धप्रायश्चित्तयोः समुचयासंभवाकि पृर्व कार्यमुत परमिति विषयेऽनुपजातविरोधितया पूर्वमिति प्राप्त राद्धान्तः पौर्वापर्ये सति निमित्तयो पूर्वस्य नैमित्तिकस्य दौर्बल्यम् । उत्तरस्य पूर्वनिरपेक्षस्य तद्वाधकतयोदितत्वात् । पूर्वो दयकाल उत्तरस्याप्राप्तत्वेन पूर्वेण बाध्यत्वायोगात् । तदुक्तम् । पर्व परमजातत्वाद्बाधित्वैव जायते । परस्यानन्यथोत्पादान्न त्वबाधेन संभवः' । तत्र दृष्टान्तः प्रकृतिवद्यथा प्रकृतौ कृतोपकाराः कुशाः प्रथममतिदेशेन विकृताव पकाराकांक्षिण्यां प्राप्ताः कल्प्योपकारचरमभाविभिरपि शरैर्निरपेक्षेबध्यन्ते तद्वत् । तथाच यथा प्रथमप्रवृत्तं दुर्बलं पूर्वनैमित्तिकमेव पश्चात्प्रवृत्तेन प्रबलेनोत्तरण नैमित्तिकेन बाध्यं तद्वद्यथोक्तं प्रत्यक्षमेव यथोक्तश्रुत्या बाध्यम्। हिशब्दो लोकप्रसिद्धिं द्योतयति । यथा पूँवैपवृत्तं रजतज्ञानमेव पश्चात्प्रवृत्तेन शुक्तिज्ञानेन बाध्यमन्यथा तदनपबाधने तदपबाधनात्मकस्य तस्योत्पत्त्यनुपपत्तेस्तद्वदित्यर्थः । इन्द्रवत्रा वृत्तम् ।। १०१ ॥ एवमुक्तो मण्डनोऽयं जीवो ब्रह्मनिरूपितभेदवानसर्वज्ञत्वाद्धटादिवदित्यनुमानेन श्रुतेबाँधं शङ्कते । नन्वेवं प्रत्यक्षेणाभेदश्रुतेबधाभावेऽपि हे संयमिचक्रवर्तिन्नित्यनेन तकनधिकारं द्योतयति । अनुमानेनाभेदश्रुतेर्बधोऽस्ति तदेव दर्शयति । घटादि १ क. 'स्तदप्य । २ ग. 'मर्षसू। ३ ग. घ. विशये । ४ क पूर्व प्र"।