पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ८] धनपतिसूरिकृतडिण्डिमाख्यटीकासवलितः । अतिप्रसतेर्न तु केवलस्य विशेषणत्वस्य तदभ्युपेयम् ॥ भेदाश्रये हीन्द्रियसंनिकृष्ट न संनिकृष्टत्वमिहाऽऽत्मनोऽस्ति ॥ ९५ ॥ भेदाश्रयात्मेन्द्रियसंनिकर्षे नेत्युक्तमेतचतुरं न यस्मात् ॥ चित्तात्मनोद्रव्यतया द्वयोर प्यस्त्येव संयोगसमाश्रयत्वम् ॥ ९६ ॥ आत्मा विभुः स्यादथवाऽणुमात्र संयोगिता नोभयथाऽपि युक्ता ॥ दृष्टा हि सा सावयवस्य लोके संयोगिता सावयवेन थोगिन् ॥ ९७ ॥ ३२७० भासतेऽथ तस्माद्धे मनीषिन्भदेन्द्रियय संयोगादिसंप्रयोगाभावेऽपि तत्संनिकष विशेषणवासंनिकर्षोंऽस्तु । इन्द्रवज्रा वृत्तम् ॥ ९४ ॥ परिहरति भगवान् । केवलस्य विशेषणत्वस्य विशेषणतामात्रस्य तत्संनिकर्षत्वं नैवा भ्युपेयं तत्र हेतुरतिप्रसक्तः । भित्त्यादिव्यवहितभूतलादिनिष्ठघटाद्यभावेऽपि विशेष णतामात्रस्य सत्त्वेन पत्यक्षत्वप्रसङ्गान् । तस्माद्वेदाश्रये हीन्द्रियसंनिकृष्टे सति विशे षण्मतायाः संनिकर्षत्वमभ्युपेयम् । न च संनिकृष्टत्वमिहेन्द्रिय भात्मनोऽस्ति । वस्तुतस्त्वधिकरणेन्द्रियसंनिकषऽपि न कारणम् । परमते कर्णवलयावच्छिन्ननभस एव श्रोत्रेन्द्रियत्वात्तस्यैव स्वग्राह्यशब्दाभावाकिरणत्वात्स्चेन स्वस्यासंनिकर्षादधिकरणेन्द्रि यसंनिकर्षाभावेन शब्दाभावे प्रत्यक्षत्वं न स्यादिति ध्येयम् । उपजातिवृत्तम् ॥९५॥ एतद्सहमानो मण्डन आह । भेदाश्रयस्याऽऽत्मन इन्द्रियेण संनिकष नास्तीति त्वयोक्तमेतन्न समीचीनं यस्माचित्तात्मनोऽव्यत्वेनोभयोरपि संयोगसमाश्रयत्वमस्त्येव । इन्द्रवप्रा वृत्तम् ॥ ९६ ॥ [ अथ मण्डनस्तु तार्किकरीत्या तत्खण्डयति । भेदेति ] ॥ ९६ ।। एवमाक्षिप्तो भगवान्विकल्प्याऽऽक्षेपं क्षिपति । आत्मा विभुः स्यादथवाऽणुमात्रः पक्षद्वयेऽपि संयोगिता न युक्ता हि यस्मात्सावयवस्य सावयवेन सा संयोगिता लोके दृष्टा तस्मादित्यर्थः । भार्यादियोगित्वमनुभूतमपलपितुमनहॉऽसीति कटाक्षेण संबोध याति । हे योगिन्निति ॥ ९७ ॥ १ ग. प्रतिक्षि'। २ ख. 'योगी त्व'।