पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ भिन्नोऽहमीशादिति भासते हि भेदस्य जीवात्मविशेषणत्वम् ॥ तत्संनिकषऽस्त्वथ संप्रयोगा भावेऽपि भेदेन्द्रिययोर्मनीषिन् ॥ ९४ ॥ श्रीमच्छकरांदिग्विजपः । १ क. ग. ‘वा । [ सर्गः ८ ] नास्य वाक्यस्य कुतो विरोधो न केनापि विरोधोऽस्य पत्यक्षस्य कस्माद्धेतोर्विरोध इति वा । तेन प्रत्यक्षेणौस्य वाक्यस्येति वा । अयमर्थः । इन्द्रियं भेदे न प्रमाणं तद् संनिकृष्टत्वात्संमतवत् । ननु हेत्वसिद्धिरिति चेदिन्द्रियस्य भेदेन संयोगसमवायतादा त्म्यानामन्यतमः संनिकर्षस्तदन्यो वा । अभाद्ये न तावत्समवायोऽसंभवात्तदसिद्धेश्च । ननु रूपी घटो मृदि घट इति मत्ययस्य संयोगानवगहित्वात्परिशेषात्समवाय एव सिध्यतीति चेन्न । गुणगुणिनोरवयवावयाविनोश्चात्यन्तभेदे तत्संबन्धस्य च तथात्वे दण्डपुरुषादावव शुक्रो घटो मृद्धट इति समानाधिकरणमत्ययानुपपत्तेः। किंच समवा यिभ्यां संबद्धः समवायो विशिष्टप्रत्ययनियामक उतासंबद्धः । नाऽऽद्यः । तस्य तस्यान्योन्यसंबन्धः कल्पयितव्य इत्यनवस्थापातात् । ननु समवायिभिर्नित्यसंबन्ध एवायं गृह्यतेऽतो नोक्तदोष इति चेत्तर्हि संयोगोऽपि संयोगिभिर्नित्यसंबेद्धत्वात्संब न्धान्तरं नापेक्षेत । अर्थान्तरत्वादपेक्षत इति चेत्ताहिं समवायोऽपि तथात्वात्कुतो नापे क्षते संयोगो गुणत्वात्तथेति चेन्न । गुणपरिभाषाया अतत्रत्वादपेक्षाकारणस्य च तुल्य त्वात् । नान्त्यः । अतिप्रसङ्गात् । किंच सोऽनेक एको वा । भाधेऽपसिद्धान्तो ौरवं च । द्वितीये रूपज्ञानादिसमवायस्य वायुघटादिवृत्तिसमवायाभेदादूपी वायुर्घटो ज्ञानवानिति प्रतीतिपसङ्गः । न च तत्र रूपादेरभावान्नोक्तप्रतीतिरिति वाच्यम् । तदृत्तित्वप्रयोजकसंबन्वे सति तदभावव्यवहारस्य व्याहतत्वात् । तस्मान्न कथमपि समवायः सिध्यति । अवयवावयव्यादीनां संबन्धस्तु तादात्म्यं तच न भिन्नाभिन्न त्वम् । विरुद्धयोर्भेदाभेदयेोरेकत्रासंभवात् । अपि तु भिन्नत्वे सत्यभिन्नसत्ताकत्वं तच निर्वाच्यम् । नापि संयोगतादात्म्ये तदभावस्य सुपासिद्धेः । न द्वितीयस्तदन्यसंनि कर्षस्य काप्यप्रसिद्धेरिति ॥ ९३ ॥ [ प्रत्यक्षादेजवेश्वरभेदपरत्वमेव न संभवतीति मन्वानः प्रथमं प्रत्यक्षस्य भेदेन सह संनिकर्ष एव नास्तीति तद्विषयकतत्प्रमाभावात्र तेन सह विरोधात्तत्वमस्यादिश्रुतिबाध इति समाधत्ते । अक्षेण चेदिति ] [ अक्षे णेन्द्रियेण करणेन ] ॥ ९३ ॥ ननु भेदस्यान्योन्याभावरूपत्वादभावे च विशेषणतायाः संनिकर्षत्वादसंनिकर्षा सिद्धिरिति मण्डनः शङ्कते । हि यस्मादीशादहं भिन्न इति भेदस्य जीवात्मविशेषणत्वं । २ ख. 'णास्ये'। ३ क. मृद्धट । ४ ग. घ. 'न्योन्यः सं'। ५ ग. घ.