पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पौत्वा तदुक्तीरथ तस्य गेहा द्वत्वा बहिः सम कवाटगुप्तम् ॥ दुर्वेशमालोच्य स योगशक्षा व्योमाध्वनाऽवातरदङ्गणान्तः ॥ ९ ॥ तदा स लेखेन्द्रनिकेतनार्भ स्फुरन्मरुश्चञ्चलकेतनाभम् ।। समग्रमालोकत मण्डनस्य निवेशनं भूतलमण्डनस्य ॥ १० ॥ भविश्य तत्प्राप्य कवेः सकाशम् ॥ विद्याविशेषात्तयशः:प्रकाशं ददर्श तं पद्मजसंनिकाशम् ॥ ११ ॥ ताभिर्दत्तं प्रतिवचनं श्रुत्वा भगवान्माष्यकारो यत्कृतवांस्तदाह । पीत्वेति । तासां दासीनामुक्तीर्वचनानि कर्णपुटेन पीत्वाऽवधार्य तस्य मण्डनस्य गेहाद्वहिर्गत्वा कवाटै गृधं रक्षितं दुर्वेशं दुर्घटः मवेशो यस्मिस्तादृशं तस्य स भवनमवलोक्य स योगीन्द्रो योगशाक्त्या व्योमाध्वनाऽऽकाशमार्गेणाङ्गणान्तश्चत्वरमध्येऽवातरत् ॥ ९ ॥ [ सर्गः ८] ततश्ध यदृत्तं तदाह । तदेति । तदा तस्मिन्नवतरणकाले स योगीन्द्रो भूतलमण्ड नस्य भूलोकालंकारस्य मण्डनस्य निवेशानं वासस्थानं समग्रमालोकत दृष्टवान् । निवेशानं विशिनष्टि । लेखा देवाः ‘लेखा अदितिनन्दनाः' इत्यमरः । तेषामिन्द्रस्य यन्निकेतनं गृहं तस्याऽऽमेवाऽऽभा कान्तिरिव कान्तिर्यस्य तद्देवेन्द्रगृह्तुल्यमित्यर्थः । स्फुरता मरुता वायुना चञ्चलस्य केतनस्य केतोराभा यस्मिस्तत् ‘केतनं तु निमभ्रणे' ‘गृहे कैतौ च कृत्ये च' इति मेदिनी ॥ १० ॥ सैौधस्य प्रासादस्याग्रेणाग्रभागेन संछन्ने नभस्तदात्मकोऽवकाशो यस्मिस्तत्सव प्रविश्य कवेर्मण्डनस्य सकाशं समीपं प्राप्य तं कविं ददर्श । कविं विशिनष्टि । विद्याया विशेषात्सर्वत आधिक्यादात्तः प्राप्तो यशसः प्रकाशो यं तं पवजेन ब्रह्मणा समम् । आारूयानकी वृत्तम् ।। ११ ।। १ क. 'तं दत्तकबाटं दुनिवे'। ख. 'तं सकवाटं दुर्निवे'।