पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ८ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । स्वतः प्रमाणं परतः प्रमाणं कीराङ्गना यत्र गिरं गिरन्ति । द्वारस्थनीडान्तरसंनिरुद्धा जानीहि तन्मण्डनपण्डितौकः ॥ ६ ॥ फलप्रदं कर्म फलप्रदोऽजः कीराङ्गना यत्र गिरं गिरन्ति । द्वारस्थनीडान्तरसंनिरुद्धा जानीहि तन्मण्डनपण्डितैौकः ॥ ७ ॥ जगदुव स्याज्जगदधुव स्या त्कीराङ्गना यत्र गिरं गिरन्ति । द्वारस्थनीडान्तरसंनिरुद्धा जानीहि तन्मण्डनपण्डितौकः ॥ ८ ॥ स्थानं कुत्रेत्येतास्तस्य दासीजलानयनार्थं गत्रीर्गमनकत्रः स भाष्यकारः पप्रच्छ । ताश्चाप्यदुतश्चासौ शंकरश्चेत्यदुतशंकरस्तमद्रुतत्वं च शंकरत्वे सत्येकवक्त्रद्विनेत्रादि मत्वं यद्वाऽद्धतमनिवाच्यं शं सुखं करोतीति तथा तं दृष्ट्रांऽवलोक्य संतोषवत्य उत्तरं प्रतिवचनं ददुः । अपिशब्देन तादृशशंकरदर्शनं निकृष्टानामपि सुखजनकमासीत्कि मुतोत्कृष्टानामिति सूचितम् ॥ ५ ॥ ताभिर्दत्तमुत्तरमुदाहरति त्रिभिः । स्वत इति । वेदवाक्यं स्वतः प्रमाणमुत परतः प्रमाणमिति विचारात्मिकां गिरं वाचं यत्र मण्डनालये कीराणां शुकादिपक्षिणा मङ्गना अपि द्वारस्थस्य नीडस्य पञ्जरादिरूपस्यान्तरे मध्ये सम्यङनिरुद्धा गिरन्त्यचा रयन्ति तत्तादृशं मण्डनपण्डितस्यौको गृहं जानीहि ॥ ६ ॥ सुखदुःखादिफलप्रदं कर्म किंवाऽजो जन्मशून्यः सर्वशक्तिः सर्वज्ञः परमात्मेति विचारात्मिकाम् । समानमन्यत् ॥७॥ [*अजोऽजामेकाम्’ इत्यादिश्रुतेरीश्वर इत्यर्थः । अत्राऽद्यो जैमिनीयसिद्धान्तः । अन्त्यस्तु बादरायणादिसिद्धान्त इति ध्येयम्]॥७॥ किंच जगद्धवं प्रवाहरुपेण नित्यं न कदाऽप्यनीदृशं स्यात्किवाऽधुवमनित्यं स्या दितिविचारात्मकामित्यर्थः ॥ ८ (॥ [जगदिति । ‘जगद्विश्धं ध्रुवं नित्यम्’ इति भाट्टा दिभदवादिमतम् । ‘अधुवं कल्पितम्’ इति वेदान्तिसंमतम् ]।। ८ ।। २९७ १ ग. 'gाऽऽलो'।