पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ७] धनपतिसूरिकृतडिण्डिमाख्ठयटीकासंवलितः । अवादिषं वेदविघातदक्षे स्तान्नाशकं जेतुमबुध्यमानः । तदीयसिद्धान्तरहस्यवाध निषेध्यबोधाद्धि निषेध्यबाधः ॥ ९३ ॥ तदा तदीयं शरणं प्रपन्नः सिद्धान्तमश्रौषमनुद्धतात्मा ॥ अदूदुषद्वैदिकमेव मार्ग तथागतो जातु कुशाग्रबुद्धिः ।। ९४ ।। तदाऽपतन्मे सहसाऽश्रुबिन्दु स्तचाविदुः पार्चनिवासिनोऽन्ये ।। तदाप्रभृत्येव विवेश शङ्का मय्याप्तभावं परिहृत्य तेषाम् ॥ ९५ ॥ विपक्षपाठी बलवान्द्विजातिः मत्याद्दद्दर्शनमस्मदीयम् ॥ उबाटनीयः कथमप्युपायै नैतादृशः स्थापयितुं हि योग्यः ॥ ९६ ॥ २८० वदन्तो लोके विचरति स्मैषां सुगतानां काचित्प्रतिपत्तिः प्रतिक्रिया नाऽऽसीत् । आरूयानकी वृत्तम् ॥ ९२ ॥ [ परस्परेति । ‘स्वर्गकामो यजेत' 'नेह नानाऽस्ति किंचन' इत्यादिपरस्परव्याघातीभूतद्वैताद्वैतवाचकत्वाचेत्यर्थः ] ॥ ९२ ।। वेदविघातदक्षस्तैरवादिषं वादं कृतवान्परं तु तदीयसिद्धान्तरहस्यजलधीनबुध्यमा नस्ताजेतुं नाशकं हि यतो निषेध्यस्य ज्ञानान्निषेध्यस्य बाधो भवति नान्यथेत्यर्थः । उपजातिवृतम् ।। ९३ । [ वेदेति । बौद्वैः सहेत्यर्थः ] ॥ ९३ ॥ तदानीं तदीयं शरणं प्रपन्नोऽनुद्धतात्मा तदीयं सिद्धान्तमश्रौषं जातु कदाचिती क्ष्णबुद्धिः सुगतो वैदिकमेव मार्गमदूदुषत् ॥ ९४ ॥ [शारणं सौगतसमेत्यर्थः] ॥९४॥ तदा सहसा मेऽश्रुबिन्दुरपतत्तचाश्रुपतनमन्ये पार्धनिवासिनोऽविदुस्तदाप्रभृत्येव मय्याप्तभावं परिहृत्य स्थितानां तेषां शाङ्का विवेश । उपजातिवृत्तम् ॥ ९५ ।। दर्शनं शास्त्रम् । उपजातिवृत्तम् ॥ ९६ ॥ [ विपक्षेति । विपक्षः सन्पठतीति तथा ] ॥ ९६ ॥