पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८६ श्रीमच्छकरदिग्विजयः । [ सर्गः ७ ] निरास्थमीशं श्रुतिलोकसिद्धं श्रुतेः स्वतो मात्वमुदाहरिष्यन् । न निह्नवे येन विना प्रपञ्चः सौख्याय कल्पेत न जातु विद्वन् ॥ ८९ ॥ तथागताक्रान्तमभूदशेषं स वैदिकोऽध्वा विरलीबभूव ।। परीक्ष्य तेषां विजयाय मार्ग प्रावर्ति संत्रातुमनाः पुराणम् ॥ ९० ।। सशिष्यसंघाः प्रविशन्ति राज्ञां गेहं तदादि स्ववशे विधातुम् ॥ राजा मदीयोऽजिरमस्मदीयं तदाद्रियध्वं न तु वेदमार्गम् ॥ ९१ ॥ वेदोऽप्रमाणं बहुमानबाधा त्परस्परव्याहृतिवाचकत्वात् । एवं वदन्तो विचरन्ति लोके न काचिदेषां प्रतिपत्तिरासीत् ।। ९२ ॥ ननु किमर्थमेवं विधातुं प्रवृत्तोऽसीति जिज्ञासायामीश्धरनिरासगुरुद्रोहलक्षणयो पापयोः प्रायश्चित्तं कर्तु प्रवृत्तोऽस्मीति दर्शयितुमुपक्रमते । निरास्थमिति । 'ईशानो भूतभव्यस्य' इत्यादिश्रुतेलोंकाच सिद्धमीशं निराकृतवान् । किमिच्छन्निति चेत्त त्राऽऽह । वेदस्य स्वत:मामाण्यमुदाहरिष्यन्हे विद्वञ्जातु कदाचित्प्रपञ्चो जगद्येन विना सैौरूयाय न कल्पते योग्यो न भवति तमीशं न निह्नवे नैवापलपामि तन्निषेधे मदभि प्रायो नास्तीत्यर्थः ॥ ८९ ॥ [क्षित्यङ्करादिकं सकर्तृकम् । कार्यत्वात् । घटवदित्या द्यनुमितिलक्षणलैौकिकममितिरेव लोकपदार्थः प्रकृते ] ॥ ८९ ॥ एवमेकं पापं प्रदश्र्य द्वितीयं दर्शयति । तथागतैः सुपगतैराक्रान्तमशेषं सर्वमभत्तेन घ स वैदिकः पन्था विरलीबभूवेति परीक्ष्य तेषां विजयाय पुराणं वेदमार्ग संत्रातु मना अह प्रवृत्तः ॥ ९० ॥ शिष्यसंधैः सहिताः सुगता राज्ञां गेहं पविशन्ति तदादि राजादि स्ववशे विधातुं राजा मदीयस्तथाऽजिरं विषयो देशोऽस्मदीयस्तस्माद्वेदमार्ग नैवाद्रियध्वं यद्वा तत्त स्मादस्मदीयमजिरमस्मदीयशास्त्रविषयमाश्रयध्वं न तु वेदमार्गमिति वदन्तो विचर न्तीति परेणान्वयः । ‘अजिरं प्राङ्गणे चान्ते विषये दर्दूरेऽनिले' इति मेदिनी ॥९१॥ वेदोऽप्रमाणं बहुमानेन मत्यक्षादिप्रमाणेन बाधात्परस्परव्याघातवाचकत्वाचेत्येव