पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ श्रीमच्छंकरंदिग्विजयः । सूत्रानुकारिमृदुवाक्यनिवेदितार्थ स्वीयैः पदैः सह निराकृतपूर्वपक्षम् ॥ सिद्धान्तयुक्तिविनिवेशिततत्स्वरूपं दृष्टाऽभिनन्द्य परितोषवशादवोचत ॥ ४० ॥ न साहसं तात भवानकार्षी द्यत्सूत्रभाष्यं गुरुणा विनीतः ।। विचार्यतां सूक्तदुरुक्तमत्रे त्येतन्महत्साहसमित्यवैमि ।। ४१ ॥ मीमांसकानामपि मुख्यभूतो वेत्थाखिलव्याकरणानि विद्वन् ।। विनिःसरेते वदनाद्यतीन्दो गोविन्दशिष्यस्य कथं दुरुक्तम् ।। ४२ ॥ न प्राकृतस्त्वं सकलार्थदर्शों महानुभावः पुरुषोऽसि कश्चित् ॥ यो ब्रह्मचर्याद्विषयान्निवार्य पर्यव्रजः सूर्य इवान्धकारान् ॥ ४३ ॥ [ संगैः ७ ] पुनस्तद्विशिनष्टि । सूत्रानुसारिभिदुवाक्यैर्निवेदितोऽर्थो येन स्वीयैः पदैर्निराकृताः पूर्वपक्षा यत्र सिद्धान्तयुक्तिभिर्विनिवेशितं तस्य सिद्धान्तस्य स्वरूपं यत्र तथाभूतं भाष्यं स वेदव्यासो दृष्टाऽभिनन्द्य परितोषवशादवोचदुक्तवान् । वसन्ततिलका वृत्तम् ॥ ४० ॥ [ सूत्रानुकारीति । उक्तं देवमेव भाष्यलक्षणं पाराशरपुराणे । ‘सूत्रार्थो वण्यैते यत्र पदैः सूत्रानुकारिभिः । स्ववाक्यानि च वण्र्यन्ते भाष्यं भाष्यविदो विदुः' इति ] ॥ ४० ॥ गुरुणा विनीतो भवान्यत्सूत्रभाष्यमकृत तत्साहसं न कृतवान् । सूक्तदुरुक्तमत्र विचार्यतामित्येतन्महत्साहसमित्यवैमि जानामि । उपजातिवृत्तम् ॥ ४१ ॥ तत्र हेतुमाह । मीमांसकानामपीति । वेत्थ जानासि । उपजातिवृत्तम् ॥ ४२ ॥ किंच न प्राकृतस्त्वं किंतु सर्वार्थदर्श कश्चिन्महानुभावः पुरुषोऽसि । तत्र हेतु माह । य इति । पर्यव्रजः संन्यासं कृतवान् । अनायासेन विषयनिवारणे दृष्टान्ती यथा सूर्योऽन्धकारान्निवार्य गच्छंति तद्वत् ॥ ४३ ॥