पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ६ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । २५७ विद्वज्जालतपःफलं श्रुतिवधूधम्मिछमछीस्रज सद्वैयासिकसूत्रमुग्धमधुरागण्यातिपुण्योदयम् ॥ वाग्देवीचिरभोग्यभाग्यविभवप्राग्भारकोशालयं भाष्यं ते निपिबन्ति हन्त न पुनर्येषां भवे संभवः ॥ १०५ ॥ मन्थानाद्रिधुरंधरा श्रुतिसुधासिन्धोर्यतिक्ष्मापते ग्रन्थानां फणितिः परावरविदामानन्दसंधायिनी ॥ इन्धानैः कुमतान्धकारपटलैरन्धीभवश्चक्षुपां पन्थानं स्फुटयन्त्यकाण्डकमभात्तकर्कविद्योतितैः ॥ १०६ ॥ [ सूत्रेति । सूत्रेषु 'अथातो ब्रह्मजिज्ञासा' इत्यादिषु कलिताः संगुम्फिता ये न्यायौघा युक्तित्रातास्तलक्षणा या रत्नावलयस्ता इत्यर्थः । पक्षे सूत्राणि क्षेौमतन्तवस्तेषु कलिता संगुम्फिता या न्यायौघा इव तर्कसंघा इव रत्नावलयस्ता इत्यर्थ । अर्थाप्त्या निरु क्तपुर्थप्राप्त्या । पक्षे वित्तप्राप्त्या ] [ अदुतो रसः। समासोक्तिलुप्तोपमारूपकश्लेषाद योऽलंकाराः ] ॥ १०४ ॥ विदुषां समृहस्य तपसः फलं श्रुतिलक्षणाया वध्वा धम्मिलस्य केशबन्धस्य माल तीस्रजं सद्वैयासिकसूत्रलक्षणसुन्दरमधुराख्यनगर्या अगणनीयस्यातिपुण्यस्योदयभूतं वाग्देव्या यानि चिरभोग्यभाग्यानि तेषां विर्भवातिशयभतार्थसंघातस्याऽऽलयं भाष्यं ते नितरां पिबन्तैि । ते क इत्यपेक्षायामाह । येषां संसारे पुनर्जन्म नास्ति । हन्तेोति हर्षे । 'मुग्धस्तु सुन्दरे मूढे' । ‘मधुरा शतपुष्पायां मिश्रेयानगरीभिदोः' । कोशोऽस्त्री कुड्मले पात्रे दिव्ये खड़पिधानके । जातीकोशेऽर्थसंघाते' इति मेदिनी ॥ १०५ ॥ [ सदबाधितम् । एतादृशम् । तथा । वैयासिकेति । वैयासिकसूत्रमेव मुग्धमधुरं सुन्दरखाद्य तस्यागण्यान्यसंख्यानि यान्यतिपुण्यानि तषामुदयरूपम् । रुपकादयोऽलंकाराः ] | १०५ ॥ श्रुतिलक्षणस्य सुधासिन्धोः क्षीरसमुद्रस्य मन्थानाद्रेर्धरं धरतीति तथाभूतां तत्सदृशा याविराजस्य ग्रन्थानां सूक्तिः परे ब्रह्मादयोऽवरे यस्मात्तं परमात्मानं विदन्तीति तथा कार्थकारणविदो वा स्थूलसूक्ष्मविदो वा तत्त्वंपदार्थविदो वा तेषामानन्दाधायिनी । इन्धनैदातिं कुर्वस्तिर्कलक्षणार्कमकाशैः कुमतान्धकारसमूहैरन्वीभवचक्षुषां मार्ग स्फो रयन्त्यकाण्डकमभान्न तु रहस्यकाण्डकमकुत्सितं यथा स्यात्तथाऽभादिति वा। ‘कुत्सिते १ ख. घ. "भवस्याति'। २ क. 'न्ति । क । ३ क. ग. "ता य'। ४ क. स्फुटयन्ती ।