पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ श्रीमच्छंकरदिग्विजयः । [ सर्गः ६] न्यायमन्दरविमन्थनजाता भाष्यनूतनमुधा श्रुतिसिन्धोः ॥ केवलश्रवणतो विबुधेभ्य श्चित्रमत्र वितरत्यमृतत्वम् ॥ १०२ ॥ पादादासीत्पद्मनाभस्य गङ्गा शंभोर्वक्त्राच्छांकरी भाष्यसूक्तिः ॥ आाद्या लोकान्दृश्यते मज्जयन्ती त्यन्या मानुद्धरत्यष भदः ॥ १०३ ॥ व्यासो दर्शयति स्म सूत्रकलितन्यायौघरश्नावली रर्थालाभवशान्न कैरपि बुधैरेता गृहीताश्विरम् । अर्थाप्त्या मुलभाभिराभिरधुना ते मण्डिताः पण्डिता व्यासश्चाऽऽप कृतार्थतां यतिपतेरौदार्यमाश्चर्यकृत् ॥ १०४ ।। दद्युतत् ॥ १०१ ॥ [ तमांस्यज्ञानानि । तथा चाऽऽथर्वणिकाः समामनन्ति 'माया च तमोरूपानुभूतेः' इति ] ॥ १०१ ॥ प्रसिद्धसुधाया भाष्यसुधायां व्यतिरेकं दर्शयति । व्यासोक्तन्यायलक्षणेन मन्दरा चलेन विशेषेण मन्थनाच्छूतिलक्षणात्समुद्राजाता भाष्यनूतनसुधा श्रवणमात्राद्विबुधेभ्य पण्डितेभ्योऽत्र जीवद्दशायां चित्रं प्रसिद्धामृतविलक्षणममृतत्वं मोक्षरूपं वितरति प्रय च्छति सा तु नैवंविधा । स्वागता वृत्तम् ॥ १०२ ॥ इदानीं गङ्गातो भाष्यसूत्केव्र्यतिरेकं दर्शयति । गङ्गा पद्मनामस्य विष्णोः पादा दासीत् । भाष्यसूक्तिस्तु शंभोर्मुखादासीदित्येको व्यतिरेक आाद्या गङ्गा लोकान्मज्ज यन्ती दृश्यतेऽन्या भाष्यसूक्तिः संसारसागरे मग्रानुद्धरतीत्येष द्वितीयो व्यतिरेकः । शालिनी वृत्तम् ॥ १०३ ॥ [ शांकरी शं मोक्षाख्यं निरतिशयं कल्याणं ज्ञानद्वाराऽ धिकारिणां करोतीति तथा ब्रह्मसूत्रदशोपनिषदादि तस्येयं शांकरीत्यर्थः । एवंच न शंभोरित्यनेन सहास्यपौनरुक्त्यम् ] ॥ १०३ ॥ सूत्रैः कलिता न्यायसमूहरत्नानामावलीमला व्यासो दर्शयति स्म । यथा शिल्पि वरेण ग्रन्थनं कृत्वा प्रदर्शिता रत्नमालास्तद्योग्यधनालाभात्केऽपि न गृह्णन्ति तथाऽ थलाभवशादेता मालाश्विरकालं कैरपि' पण्डितैर्न गृहीतौ इदानीं तु यतिपतेः सकाशा दर्थमाप्त्या सुलभाभिराभिर्यथोक्तमालाभिस्ते पण्डिता अलंकृता व्यासश्चापि कृतार्थतां मापातो यतिपते: श्रीशंकरस्यौदार्थमाश्चर्यकृत् । शार्दूलविक्रीडितं वृत्तम् ॥ १०४ ।। १ रा. ध. 'पेप बुधैन । २ ग. घ. "ता अधुना अर्थ'। ३ क. ख. 'भिर्माला'।