पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ श्रीमच्छंकरदिग्विजय [ सर्गः ६] तत्ताद्दग्यतिशेस्वरोद्धतनिषद्भाष्यं निशम्येष्र्यया केचिद्देवनदीतटस्थविदुषामक्षाङ्कन्निपैक्षश्रिताः ॥ मौख्यत्खण्डयितुं प्रयत्नमनुमानैकेक्षणा विक्षमा श्वकुर्भाव्यविचार्य चित्रकिरणं चित्राः पतङ्गा इव ॥ ९७ ॥ निघर्षणच्छेदनतापनाद्ये र्पथा सुवर्ण परभागमेति । विवादिभिः साधु विमथ्यमानं तथा मुनेर्भाष्यमदीपि भूयः ॥ ९८ ॥ विशेषत्वादङ्करशालित्वासंभव इति वाच्यम् । तत्किरणानामेव सूक्ष्मत्वमृदुत्वादिनाऽ ड्रस्थानीयत्वात् । एतेनोक्तकाव्यशब्दसरण्यां व्याकरणादिदोषशून्यत्वेन विमलत्वं माधुर्यादिगुणव्यञ्जकसुकोमलवर्णघटितत्वं च सूच्यते । अरविन्देति । एतेन यावद र्थदोषशून्यत्वे सति यावत्तदुणवत्वमर्थेषु ध्वन्यते । कल्पेति ।एतेन तत्र सकलकामपू रकत्वं व्यज्यते ] ॥ ९६ ।। यतिशेखरेणोदृतमुपनिषद्भाष्यं तत्तादृक्तथाभूतप्रभावं निशाम्य गङ्गातटस्थविदुषां मध्ये केचिद्रौतमपक्ष श्रिता भेदवादिनोऽनुमानमेकं प्रधानर्मीक्षणं ज्ञानसाधनं येषां ते विक्षमाः क्षमाविनिर्मुक्ताँ असमर्था वेण्र्यया मात्सर्येण भविष्यमविचार्य खण्डयितुं प्रयत्नं चक्रु श्चित्रकिरणं चित्रभानुमग्रि चित्राः पतङ्गा एव । शार्दूलविक्रीडितं वृत्तम् ॥ ९७ ॥ [ यतीति । परमहंसोत्तंसीभूतश्रीमद्भगवत्पादैरुङ्कतमित्यर्थः । एतेन तत्र क्षीरनीरवत्सं करीभूतपूर्वोत्तरकाण्डविवेचकत्वं व्यज्यते । निषदिति । सत्यभामादिपदे भामेत्यादि प्रयोगप्रसिद्धिवन्नामैकदेशे नामग्रह्णन्यायादुपेत्युपसर्गाग्रहेऽपि क्षत्यभावादुपनिषदुप लक्षितब्रह्मसूत्रादि मागुक्तषोडशभाष्यजातमित्यर्थः । अक्षेति । अक्षपादाभिधगौतम सिद्धान्तमिति यावत् । श्रिता आश्रिताः केचित्रैयायिका इत्यर्थः ] चित्रकिरणं ‘सूर्य वही चित्रभानू' इत्यमराद्दीपमित्यर्थः । खण्डाथतुं प्रयत्नं कृतवन्तः सन्त इति शेषः । चित्रा विविधाः पतङ्गा इव शालभा इव विक्षमा असमर्था एव बभूवुरिति योजना ] ॥ ९७ ॥ तैष्यमाणं तदीयं भाष्यं न दुष्टतामगात्प्रत्युतातिशयेन रराजेति सदृष्टान्तमाह निघर्षणादिभिर्यथा सुवर्णे परमुत्कृष्टं भागं भाग्यं प्राप्तोति तथा विवादिभिरतिशयेन मथ्यमानं मुनेर्भाष्यमत्यन्तमद्युतत् । उपेन्द्रवज्रा वृत्तम् ॥ ९८ ॥ [ साधु सयुक्तिकं यथा स्यात्तथा ] ॥ ९८ ॥ १ ख. घ. 'दृङ्मुविशे'। २ न. "पक्षं श्रि'। ३ घ. 'पक्षश्रि'। ४ क. ग. 'क्ता ईष्'। क, तैरीष्र्यमा'।