पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ६] धनपतिरिकृतडिण्डिमाख्यटीकासंवलितः । वाग्गुम्फैः कुरुविन्दकन्दलनिभैरानन्दकन्दैः सता मथोंघरविन्दवृन्दकुह रस्यन्दन्मरन्दोज्ज्वलैः ॥ व्यङ्गयैः कल्पतरुमफुलसुमनःसौरभ्यगभकृतै दैत्ते कस्य मुदं न शंकरगुरोर्भव्यार्थकाव्यावलिः ॥ ९६ ॥ २५३ ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति' इति भगवद्वचनादद्वैतात्मतत्वसाक्षात्कारोत्तरक्षणजन्यसकलदृश्योच्छेदलक्षणो मोक्षो येषां ते तथा तेषां श्रीमत्पद्मपादाचार्याद्यनन्तजीवन्मुक्तानां यानि कुलानि भारत्यादिसं प्रदायियूथानि तेषां पतिर्नियन्ता तस्य श्रीभगवत्पादस्येत्यर्थः । लुप्तोपमारूपककाव्य लिङ्गपरिकरादयोऽलंकाराः ] ॥ ९५ ॥ शंकरगुरोर्भव्योऽर्थो येषां तेषां काव्यानामावलिः पङ्गिर्वाचां गुम्फैरथैधैव्र्यङ्गयैश्च कस्य मुदं न ददाति । वाग्गुम्फान्विशिनष्टि । कुरुविन्दो मुस्तकः । ‘कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम् इत्यमरः । तस्य कन्दलनिभैर्नवांङ्करतुल्यैः सतामानन्दस्य कन्दैलैः । अथार्थों घान्विशिनष्टि । अरविन्दवृन्दस्य कमलसमुदायस्य चिछद्रेभ्यः स्यन्दन्मरन्दः स्रवन्म करन्दस्तद्वदुज्ज्वलैः । अथ व्यङ्गवान्विशिनष्टि । कल्पवृक्षस्य प्रफुलसुमनसः सुगन्धै गर्मीकृतैः ॥ ९६ ॥ [भव्येति । भव्यानां सुन्दरपुरुषाणामेवार्था धर्मादिपुरुषार्थाः येभ्यस्तान्येतादृशान्यधिकार्यवच्छेदेन पुमर्थजनकानि यानि काव्यानि तेषामावलि पाङ्गरिति यावत् । नन्वेवं वर्मादिपुमर्थकामुकैकोपकारकत्वेऽपि तत्र निष्कामानादरणी यत्वमेव स्यादित्याशङ्कय तच्छब्दादीन्विशिनष्टि आनन्देत्यादिना । सतां ब्रह्मानि ष्ठानाम् ] [ ननु किमेतावता शब्दालंकारैकपौष्कल्येष्वर्थादिवैचित्र्याभावे 'तारतारतरैरेतैरुत्तरोत्तरतो रुतैः । रतात तित्तिरी रौति तीरे तीरे तरौ तरौ' इत्यादिवत्क्षणिकश्रवणानन्देन निरुक्तजगदानन्दकन्दत्वमित्यत आह । अथेधैः प्रतिपाद्यशक्यादिपदार्थसाथैरित्यर्थः । तथा । व्यङ्गयैव्र्यञ्जनावृत्तिगम्यै रसालंकारा दिभिरपीति यावत् । वाग्गुम्फादींस्त्रीनपि क्रमाद्विशिनष्टि कुरुविन्देत्यादिना । ‘कुरुविन्दं रत्नभेदे मुस्ताकुल्माषयोः पुमान् । हिङ्गले पद्मरागे च मुकुरेऽपि समीरिते' इति मेदिन्याः पद्मरागाङ्करसदृशैरित्यर्थः । न च पद्मरागाणां स्वप्रकाशपाषाण १ ग. "ङ्गयानि विशि'।