सामग्री पर जाएँ

पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६ श्रीमच्छंकरदिग्विजयः । त्पराभवं पीडितपुण्डरीकाः ।। प्रपेदिरे भास्करगुप्तमिश्र मुरारिविद्येन्द्रगुरुपधानाः ॥ ८२ ॥ अस्याऽऽत्मनिष्ठातिशयेन तुष्ट प्रादुर्भवन्कामरिपुः पुरस्तात् ॥ प्रचोदयामास किल प्रणेतुं वेदान्तशारीरकसूत्रभाष्यम् ॥ ८३ ॥ कुदृष्टितिमिरस्फुरत्कुमतपङ्कममां पुरा पराशरभुवा चिराद्धधमुदे बुधेनोद्धताम् ॥ अहो बत जरद्रवीमनघभाष्यसूक्तामृतै रपङ्कयति शंकरः प्रणतशंकरः सादरम् ॥ ८४ ॥ मुहुः पुनः पुनद्यतितानि सर्वशास्त्राणि येन तथाभूतादस्माच्छूशंकरात्पीडितं हृत्कमलं येषां ते भास्करप्रमुखा: पराभवं प्रपेदिरे प्राप्तवन्तः ॥ ८२ ॥ [भास्करेति । भास्करो भेदाभेदवादी गुप्तोऽभिनवगुप्तपादारूयः शाक्तो मिश्रमुरारिर्मुरारिमिश्रो विद्येन्द्रो भारतीपतिः प्रागुक्तो मण्डनमिश्रो गुरुः पभाकर एते प्रधाना मुख्या थेषां प्रागुक्तनी लकण्ठाख्यपाशुपतादिभेद्वादिनां ते तथेत्यर्थः ] ॥ ८२ ॥ किंचवास्याऽऽत्मनिष्ठया तुष्टः कामरिपुर्महादेवः पुरस्तात्मादुर्भवन्वेदान्तानां शारी रकसूत्राणां च भाष्यं प्रणेतुं प्रचोदयामास ॥ ८३ ॥ कुदृष्टीनां तिमिरस्फुरत्कुमतान्येव पङ्कस्तस्मिन्मग्रां पुरा पराशरसूनुना बुधेन वेद व्यासेन बुवानां मुदे चिरादुदृतां जरद्रवीं चिरंतनां श्रुतिलक्षणां गाम् । अहो बतेति निपातावत्याश्चयर्थकावत्यन्तहर्षार्थकौ वा । निरवद्यभाष्यसूक्तलक्षणैरमृतैः सादरं यथा स्यात्तथाऽपङ्कयत्युक्तपङ्कविनिर्मुक्तां करोतीत्यर्थ । पृथ्वी वृत्तम् ॥ ८४ ।। [ कुदृष्टीति । कुत्सिता दुष्टा दृष्टिभेदवादमवणा बुद्धिर्येषां ते तथा तेषां यत्तिमिरम ज्ञानरूपं ध्वान्तं तेन स्फुरन्ति भासमानानि यानि कुमतानि सांख्यतार्किकमीमांसका दिसकलद्वैतवादिदुर्भतानि स एव पङ्कः कर्दमस्तत्र मग्रां पक्षे कुदृष्टिर्मान्द्यादिदृग्दोष शाली गोपस्तेन कृष्णवर्णत्वसाम्यातिमिरबुद्धया यः कुत्सितो मतो मिथ्याज्ञानेन निर्णीतः पङ्कः कर्दमस्तस्मिन्मग्रामिति यावत्] [ जरद्रवीं जरत्यनादिसिद्धा पक्षे जीर्णे तादृशी या गौर्वेदवाणी पक्षे धेनुस्तामिति यावत् ] [ अनघेति । एतेन भाष्ये वेद समत्वं सूक्तरूपकेणामृतरूपकेण चाजरामरत्वापादकत्वं च सूचितम् । सादरं सप्रेम ] [ सगः ६]

  • ख. 'मिश्रा मु।