सामग्री पर जाएँ

पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ सर्गः ६ ] धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः । व्याख्यानृम्भितपाटवात्फणिपतेर्मन्दाक्षमुद्दीपय न्संख्यालङ्कघितशिष्यहृद्रनरुहष्वादित्यतामुद्वहन् ।। न्कुर्वन्वादिमृगेषु निर्भरमभाच्छार्दूलविक्रीडितम् ॥ ७९ ॥ वेदान्तकान्तारकृतप्रचारः सुतीक्ष्णसद्युक्तिनखाग्रदंष्ट्रः ॥ भयंकरो वादिमतंगजानां महर्षिकण्ठीरव उललास ॥ ८० ॥ अमानुषं तस्य यतीश्वरस्य विलोक्य बालस्य सतः प्रभावम् ।। काशीपुरस्था जगदुस्तदेत्थम् ॥ ८१ ॥ २४५ याख्याया नृम्भतमुल्लसत यत्पाटव कुशलता तस्मात्फाणपतः शषस्य मन्दाक्ष लज्जामुद्दीपयन् । संख्या मतिक्रान्तानामसंस्यातानां शिष्याणां हृज्जलरुहेषु भानुता मुद्वहन् । उद्वेलस्चयश:मुमैरुलड़घितसप्तावितटस्वयशोलक्षणपुष्पैर्जगदूषयन्वादिमृगेषु निर्भरं दृढं शार्दूलविक्रीडितं कुर्वन्स भगवत्पादोऽभाद्द्युतत् । अत्र श्रीशंकरवर्णनपरेण शार्दूलविक्रीडितपदेनैतच्छन्दोनामसूचनान्मुद्रालंकारः । 'सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदै इत्युक्तः । शार्दूलविक्रीडितं वृत्तम् ॥ ७९ ॥ [ व्याख्यायां ब्रह्मसूत्रादिवि वृतौ नृम्भितं विकसितं यत्पाटवं कौशलं तस्मादित्यर्थः । फणिपतेर्महाभाष्यकर्तुः शेषस्यापीति यावत्][निर्भरमत्यन्तं यथा स्यात्तथा । अभाच्छुशुभ इति योजना । अत्र शान्तानुपाणित: पाण्डित्यवीरो रसः । धीरोदात्तो नायकः । काव्यलिङ्गादिर्मुद्रा चालं कारः ] || ७९ ।। श्रीशंकरं सिंहरूपेण वर्णयति । वेदान्त लक्षणे वने कृत: प्रचारो येन सुतीक्ष्णानेि सद्युक्तय एव नखाग्राणि दंष्ट्राश्च यस्य वादिलक्षगानां गजानां भयंकर एवंविधो मह र्षिलक्षणः सिंह उललासोचकाशे । उपजातिवृत्तम् ॥ ८० ॥ [वेदान्तेति । ‘कान्तारं वत्मै दुर्गमम्' इत्यमरः । तेन वेदान्तानां दुरवगाहत्वं ध्वन्यते । रूपकमलंकार:]॥८०॥ तस्य यतीश्वरस्य बालस्य सतः प्रभावं वि लेाक्याऽऽश्वर्ययुक्तमन्तरङ्गं मनो येषां तव काशीपुरस्थास्तस्मिन्काल इत्थमूचुः ॥ ८१ ॥