पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग:६]
२२१
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।


येऽप्यन्येऽमुं सेवितुं देवतांशा
यातास्तेऽपि प्राय एवं विरक्ताः ।।
क्षेत्रे तस्मिन्नेव शिष्यत्वमस्य
प्रापुः स्पष्टं लोकरीत्याऽपि गन्तुम् ।। १६ ।।
व्याख्या मौनमनुत्तराः परिदलच्छङ्काकलाकुरा
इछात्रा विश्वपवित्रचित्रचारितास्ते वामदेवादयः ।
तस्यैतस्य विनीतलोकतांतिमुद्धर्तु धरित्रीतलं
प्राप्तस्याद्य विनेयतामुपगता धन्याः किलान्यादृशाः ।। १७ ।।




त्वाद्रहनतराम्बुनिधिस्तस्येत्यर्थः ] [पारं संसारघोरजलवेरद्वैतब्रह्मपमोक्षलक्षणं परतीर
मित्यर्थः । रूपकादिरलंकारः ] ॥ १५ ॥
 एवं प्रथमविनेयवृत्तान्तं विस्तरेणाभिवायेतरेषां संक्षेपेण तमाह । येऽप्यन्थे चित्पु
खानन्दगिर्यादयो देवतांशा अमुं श्रीशंकरं सेवितुं याताम्तेऽपि सनन्दनवत्यायो विर
क्तास्तास्मिन्नविमुक्तक्षेत्र एव वटमूलस्थमहादेवशिष्या अपि लोकरीत्याऽपि स्पष्टं शंक
राचार्यशिष्या इति प्रसिद्धिं पासुमस्य शिष्यत्वमापुः । ‘शालिन्युक्ता म्तौ तर्गौ गोऽ
ब्धिलोकैः’ ॥ १६ । [अस्य श्रीमच्छंकराचार्यस्य । शिप्यत्वं शिष्यपरंपराद्वाँरव न
तु साक्षात् । अन्यथाऽन्यपदेन डिण्डिमकृद्वद्याख्यातचित्सुखानन्दगियर्यन्थालंकारे
पूज्यपादज्ञानोत्तमशिप्यचित्सुखेत्यादेः शुद्धानन्दपूज्यपादशिष्यभगवदानन्दज्ञानेत्या
देश्ध लेखस्य विरुद्धत्वापत्तेः ] ॥ १६ ॥
 एतदेव स्फुटयति । व्याख्येति । मैौनमेव व्याख्या शिष्याश्च शुकवामदेवादयो
विश्धस्य पवित्रं च तचित्रं च तचरितं येषां तेऽनुत्तरा उत्तररहिता यतः परिदलन्तो
विनाशं गच्छन्तः शङ्काकलङ्कानामङ्करा येभ्यस्ते ।

'चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा ।
गुरोस्तु मौनं व्याख्यानं शिष्यास्तु च्छिन्नसंशया'


 इत्युक्तत्वात्त एव यस्य शिवस्य शिष्यास्तस्यैतस्य श्रीशंकरस्य विनीतलोकप
ङ्गिमुद्धर्तुमस्मिन्मत्र्यलोके प्राप्तस्येदानीं शिष्यतां प्राप्ता धन्याः किल यतोऽन्यादृशाः
सर्वतो विलक्षणाः । शार्दूलविक्रीडितं वृत्तम् ॥ १७ ॥ [ ते 'शुको मुक्तो वामदेवो
मुक्तः' इति श्रुतिप्रसिद्धा वामदेवाद्यः सन्तीति शेषः ] [ विभावनालंकारः । तदुक्तम् ।

'विभावना विनाऽपि स्यात्कारणात्कार्यजन्मचेत् ।
अप्यूलाक्षारसासित्तं रक्तं त्वचरणद्वयम्’ इतेि ] ॥ १७ ॥