पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०६
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


नीरदा: मुचिरसंभृतमेते
जीवनं द्विजगणाय वितीर्य ॥
त्यक्तविद्युदबलाः परिशुद्धा
प्रव्रजन्ति घनवीथिगृहेभ्यः ॥ ४५ ।।
चन्द्रिकाभसितचर्चितगात्र
श्चन्द्रमण्डलकमण्डलुशोभी ॥
बन्धुजीवकुसुमोत्करशाटी
संवृतो यतिरिवायमनेहाः ॥ ४६ ॥
हँससंगतिलसद्विरजस्कं
क्षोभवर्जितमपन्हुतपङ्कम् ।।
वारि सारसमतीव गभीरं
तावकं मन इव प्रतिभाति ॥ ४७ ॥




पुटभेदा यया गर्भवतीनि भुवनानि जलानि यस्याः कमलेराढ्या शोभायुक्ता तटिनीय
नदी परहंसैरुत्कृष्टैर्हसाख्यपक्षिभिः परमहंसैरिति वा ॥ ४४ ।॥ [ धृतेति । 'चक्राणि
पुटभेदाः स्युः' इत्यमरात्कलितपर्णपुटाकारवर्तुलजलाच्छद्रेत्यर्थः ] [ उपमादिर
लंकारः ] ॥ ४४ ॥
 एते जलदाः सुचिरसंभृतं जीवनं जलं द्विजानां ब्राह्मणादीनां पक्षिणां च गणाय
वितीर्य दत्वा त्यक्ता विद्युलक्षणाऽबलाऽङ्गना यैः परिशुद्धा आमन्ताच्छुभ्रा मेघवीथि
लक्षणेभ्यो गृहेभ्यः पव्रजन्ति प्रयान्ति । पक्षे नीरदा निर्गतदन्ता जरां प्राप्ता एते
चिरसंभृतं चिरपर्यन्तं संचितं जीवनं धनवान्यादि ब्राह्मणगणाय मदत्वा त्यक्ता
विद्युदिवातिचञ्चलाऽबला यैर्यतः परिशुद्धान्तःकरणा घनीभूता वीथयो येषु तेभ्यो
गृहेभ्यः प्रव्रजन्ति संन्यस्य गच्छन्तीत्यर्थः ॥ ४५ ॥ [ रूपकादिरलंकारः ] ॥४५॥
 भस्मलिप्तगात्रः कमण्डलुशोभी कषायवस्रसंवृतो यथा यतिस्तद्वद्यमनेहाः शरत्का
लश्रवन्द्रज्योत्स्नालक्षणेन भस्मना चर्चितं लिप्तं गात्रं शरीरं यस्य चन्द्रमण्डललक्षणेन
कमण्डलुना शोभाऽस्यास्तीति तथा बन्धूकपुष्पसमूहलक्षणया शाव्या सवृतः प्रतिभातं
त्यर्थः ।। ४६ ॥ [ चन्द्रिकेति । चन्द्रिकैव भमितं ‘भूतिर्भसितभस्मानि' इत्यमराद्भस्म
पक्षे चन्द्रिकेव भििसतं तेन चर्चितं लिप्त गात्रं शरीरं यस्य स तथेत्यर्यः ][ रूप
कादिरलंकारः ] ४६ ॥
 वारि सारसं सरःसंबन्धि जलं तावकं त्वदीयं मन इव प्रतिभाति हंसारूयपक्षिसं
गेन विलसच तद्विगतपांसुकं च पक्षे परमहंसानां संगेन विलसच तद्विगतरजोगुणं च


१ क्, ख. घ. 'वृत्त इय'।