पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५२
[सर्गः ५]
श्रीमच्छंकरदिग्विजयः ।


तां नितान्तहृदयंगमसारां
गां निशम्य तुलितामृतधाराम् ॥
भूपतिः स रचिताञ्जलिबन्धः
स्वोपमं सुतमियेष सुसंधः ॥ २७ ॥
नो हिताय मम हाटकमेत
देहि नस्तु गृहवासिजनाप ॥
ईहितं तव भविष्यति शीघ्र
याहि पूर्णमनसेत्यवदत्तम् ॥ २८ ॥





गर्भनिर्भिन्नबीजार्थः सोऽवमर्श इति स्मृतः ।
बीजवन्तो मुखाद्यथ विप्रकीर्णा यथायथम् ।
एकार्थमुपनीयन्ते यत्र निर्वहणं हि तत्' ।


 लक्ष्येति । तस्य बीजस्य । किंचिलक्ष्यः किंचिदलक्ष्य इवोद्वेदः प्रकाशानं तत्प
तिमुखम् । निर्वहणमुपसंहृतिरिति बोध्यम् । एतादृशं च । अत एव । सुकवीष्टम् ।
एतादृशं च । तदुक्तनाटकत्रयम् । संग्रहेण संक्षेपेण । निशम्य श्रुत्वा । अत एव ।
सुवाचं शोभनवाग्वन्तम् । एतादृशम् । तं पूर्वोक्तम् । अमुं केरलनरपतिं प्रति त्वं वरं
स्वाभिलषितार्थम् । गृहाण याचय । इत्यूच उवावेत्यन्वयः ] ॥ २६ ॥
 नितान्तमत्यन्तं हृदयंगमो मनोहरः सारो यस्यां तुलिताऽमृतधारा यया तां गां
वरं गृहाणेति वाचं निशम्य रवितोऽञ्जलिबन्धो येन स बद्धाञ्जलिः सुषु संधा प्रतिज्ञा
यस्य स भूपतिः स्वोपमं स्वसदृशं पुत्रमियेषेच्छति स्म ॥ २७॥ [ ततः स राजा कं
वरं वत्र इत्यत्राऽऽह । तामिति । सुसंधः । ‘संधा स्थितिप्रतिज्ञयोः' इति मेदिन्या।
शोभना संधा स्थितिर्थस्य स तथेत्यर्थः । एतेन वक्ष्यमाणाञ्जलिकरणे हेतुद्योतितः ।
डिण्डिमकारस्तु सुषु संधा प्रतिज्ञा यस्येति व्याचष्ट । एतादृशः । अत एव । रचि
तेति ]॥ २७ ॥
 एवं प्रार्थितः श्रीशंकरस्तं राजानमुवाच । एतद्दशासहस्रसंख्याकं हाटकं मम हिताय
नास्ति तर्हि कथं विधेयमिति तत्राऽऽह । नोऽस्माकं गृहवासिजनाय तु देहि तवे
हितं मनसाऽभिलषितं शीघ्र भविष्यति तस्मात्पूर्णमनसा शीघं याहि गच्छेति ।
मध्यमाणिन्यायेन शीघ्रपदमुभयत्र संबन्धनीयम् ॥ २८ ॥