पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ४]
१०५
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

नतिर्दत्ते मुक्ति नतमुत पदं वेति भगव
त्पदस्य प्रागल्भ्याज्जगति विवदन्ते श्रुतिविदः ॥
वय तु बूमस्तद्भजनरतपादाम्बुजरज
परीरम्भारम्भः सपदि हृदि निर्वाणशरणम् ॥ ४३ ॥
धवलांशुकपलुवावृतं
विललासोरुयुगं विपश्चितः ॥
अमृतार्णवफेनमञ्जरी
छुरितैरावतहस्तशस्तिभृत् ॥ ४४ ॥




तेन वेदव्याख्यातृषु प्राचीनेषु भट्टभास्करभर्तृपपश्चादिषु भेदाभेदवादित्वेन रामानु
जवतुच्छत्वं व्यज्यते । श्लेषादयोऽलंकाराः ] ॥ ४२ ॥
 किं नतिर्नमस्कारो मुक्ति ददात्यथवा नमस्कृतं भगवत्पादस्य पदमिति श्रुतिविद
प्रागल्भ्याज्जगति विवादं कुर्वन्ति तत्र वयं त्वेवं बूमस्तस्य श्रीशंकरंचरणस्य भजने
सेवायां यो रतस्तस्य पादकमलस्य रजसो हृदय आलिङ्गनस्याऽऽरम्भस्तत्क्षणमेव
मोक्षाश्रयभूतो मुक्तिपद् इत्यर्थः । शिखरिणी वक्तम् ॥ ४३ ॥ [ श्रुतीति । वेदज्ञा
पुरुषाः । भगवदिति । भगं षड़णमैश्वर्ये विद्यते ययोस्तादृशे पदे यस्य स तथा तस्य
श्रीशंकराचार्यस्येत्यर्थः ] [ प्रागल्भ्यात्प्रौढत्वात् ] [ निर्णयादिरलंकार: ] ॥ ४३ ॥
 अथ तदीयमृरुयुगं वर्णयति । धेतवस्त्रलक्षणेन पलवेनाऽऽवृतं विपश्चित ऊरुद्वयं
विललास शुशुभे । तद्विशिनष्टि । अमृतार्णवस्य क्षीरसमुद्रस्य फेनमञ्जर्या छुरितस्य
व्याप्तस्यैरावतस्य हस्तस्य शुण्डायाः शस्ति प्राशस्त्यं बिभर्तीति तथा । वियोगिनी
वृत्तम् ॥ ४४ ॥ [ धवलेति । धवलः शुभ्रो योऽयमंशुकपलवो ब्रह्मचारिणां कौपी
नोपरिष्टात्कव्यां वेष्टनीयो बहिर्वासस्तेनाऽऽवृतं वेष्टितमित्यर्थः] [अमृनेति । अमृतहे
तुश्वासावर्णवश्चेति शाकपार्थिवादिवद्विगृह्य तस्य क्षीरसमुद्रस्य या फेनमञ्जरी फेनपरं
परा तया छुरितः परिवोष्टितत्वेन संबद्ध एतादृशो प ऐरावतहस्त ऐरावणशुण्डादण्ड
स्तस्य या शस्तिः पशस्तिस्तां बिभर्तीति तथेति ज्ञेयम् । एतेन समाप्तपुनरात्तत्वमपि
परास्तम् । अस्य कथं विललासेत्याकाङ्क्षापूरकत्वात् । विस्तरस्तु मदीये साहित्यसा
रादावेव बोध्यः । लुप्तोपमादिरलंकारः ] ॥ ४४ ॥


ख. "रस्य च ।