पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[सर्ग ४]
१०३
धनपतिसूरिकृतडिण्डिमाख्यटीकासंवलितः ।

तत्त्वज्ञानफलेग्रहिर्घनतरव्यामोहमुष्टिंधयो
निःशेषव्यसनोदरंभरिघप्राग्भारकूलंकषः ॥
लुण्टाको मदमत्सरादिविततेस्तापत्रयारुंतुदः
पादः स्यादमितंपचः करुणया भद्रकरः शांकरः ॥ ४० ॥
पदाघातस्फोटव्रणकिणितकातन्तिकभुजं
प्रघाणव्याघातप्रणतविमतद्रोहबिरुदम् ।।
परं ब्रप्रैवासौ भवति तत एवास्य सुपदं
गतापस्मारातञ्जगति महतोऽद्यापि तनुते ॥ ४१ ॥




 तत्त्वज्ञानलक्षणं फलं गृह्यातीति तत्त्वज्ञानफलेग्राहिः 'फलेग्रहिरात्मंभरिश्च' इत्युप
स्यैदन्तत्वं ग्रहेरिन्प्रत्ययश्च निपात्यते । पुनश्च घनतरो यो व्यामोहोऽकत्रात्मास्फुरण
रूपस्तं मुष्टया निष्पीड्य धयाति पिबतीति तथा पुनश्च निःशेषेव्र्यसनैर्भक्तानां समस्त
दुःखैरुदरं बिभर्तीति तथा सर्वव्यसनभक्षकः पुनश्च तेषामघस्य पापस्य यः प्राग्भारोऽ
तिशयस्तस्य कृलं तटं कषति नाशयतीति तथाभूते । नदीवन्मूलोन्मूलकः पुनश्च मद्
मत्सरदम्भादिपङ्गेर्लण्टाकोऽपहारकस्तापानामाध्यात्मिकाधिदैविकाधिभौतिकानां त्रयं व
स्यारुंतुदो मर्मस्पृग्विनाशाकस्तथा मितंपचतीति मितंपचः कदर्यः ।

कदर्ये कृपणक्षद्रकिंपचानमितंपचा ।


 इत्यमरः । तद्विलक्षणोऽमितंपचोऽत्युदार एवंविधः शांकरः पादः कल्याणकरः
स्यात् । शार्दूलविक्रीडितम् ॥४०॥ [ तत्त्वेति । तत्त्वज्ञानमद्वैतबह्मात्मैक्यप्रत्यक्षमेव
फलं गृहाति स्वभक्तजनार्थं स्वनिकटे स्थापयतीति तथा । अत एव । घनेति । घन
तराऽतिगाढ एतादृशो यो व्यामोहस्तस्य मुष्टि धयतीति मुष्टिधयो भक्षक इत्यर्थः ।
तापेति । ‘अरुंतुदस्तु मर्मस्पृक्' इत्यमरात्तापत्रयमर्मोच्छेदकः इत्यर्थः ] ॥ ४० ॥
 यमकिंकरेभ्यो मार्कण्डेयस्य रक्षणसमये पदाघातेन वामचरणप्रहारेण यः स्फोट
स्तस्य ब्रणेन चिह्नितौ कार्तान्तिकौ कृतान्तस्य यमस्य संबन्धिनौ भुजैौ येन तत्प्रघा
णो द्वारबाह्यमकोष्ठः ‘अगाँरकदेशे प्रघणः प्रघाणश्च'इति मघाणशब्दनिपातनाव्युत्पाति
स्तु प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यत इति बोध्या । तत्र यो व्याघातः पादमहा
रस्तेन प्रणतस्य दीर्घनमस्कारवत्प्रकर्षेण नतस्य नम्रभूितस्य ये बाह्याभ्यन्तरा विमताः
शत्रवस्तेषां द्रोह इति बिरुदः प्ररूयातिकरं नामधेयं यस्य । बिरुदशब्दो देशीयश
ब्दः । तत्परं ब्रौवासै श्रीशंकरो भवति ततस्तस्मादेवास्य सुपदं शोभनं चरणं जगत्य
द्यापि महतोऽक्षुद्रस्वभावान्गताऽज्ञानलक्षणापस्माराख्यासुरस्तत्कर्तृकाऽऽर्तिर्येभ्यस्तथा
तांस्तनुने कुरुते । शिखरिणी वृत्तम् ॥ ४१ ॥ [ गतेति । अत्रापस्मारपदेन स्मरणं


१ ग. पदं । २ क. भूतान्कुरु ।