पृष्ठम्:श्रीमच्छङ्करदिग्विजयः.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९८
[सर्गः ४]
श्रीमच्छंकरदिग्विजयः ।

इति दीनमुदीरयन्त्यसौ
प्रददावामलकं व्रतीन्दवे ।।
करुणं वचनं निशम्य सोऽ
प्यभवज्ज्ञाननिधिर्दयाद्रधीः ॥ २४ ॥
स मुनिर्मुरभित्कुटुम्बिनीं
पदचित्रैर्नवनीतकोमलैः ।।
मधुरैरुपतस्थिवांस्तवै
जिदारियदशानिवृत्तये ॥ २५ ॥
अथ कैटभजित्कुटुम्बिनी
तडिदुद्दामनिजाङ्गकान्तिभिः ।
सकलाश्च दिशः प्रकाशय
न्त्यचिरादाविरभूत्तदग्रतः ॥ २६ ॥
अभिवन्द्य सुरेन्द्रवन्दितं
पदयुग्मं पुरतः कृताञ्जलिम् ॥
ललितस्तुतिभिः प्रहर्षिता
तमुवाच स्मितपूर्वकं वचः ॥ २७ ॥




 इत्येवं दीनं कथयन्त्यसौ गृहस्थस्य कुटुम्बिनी व्रतिचन्द्राय श्रीशंकरायाऽऽमलकं
प्रकर्षेण भाक्तपूर्वकं ददौ । तदीयं करुणं वचनं श्रुत्वा ज्ञाननिधिः सोऽपि दया
बुद्धिरभवत् ॥ २४ ॥ [ वतीन्दवे व्रतिषु ब्रह्मचारिषु मध्य इन्दुरिव चन्द्र इव
शान्तं प्रकाशमानायेत्यर्थः] । २४ ।।
 स मुनिः श्रीशंकरः पदचित्रैर्नवनीतवत्कोमलैर्मधुरैः स्तवैर्मुरारूयासुरविदारकस्य वि
ष्णोः कुटुम्बिनीं लक्ष्मीं द्विजदारियदशानिवृत्तय उपासितवान् ॥ २५ ॥ [ पदेति ।
शब्दालंकारसंग्रहार्थम् । नवनीतेति । माधुर्याख्यगुणग्रहणार्थम् । मधुरपदेन रसार्थालं
कारयोर्यहः ] ॥ २५ ॥
 अथानन्तरं कैटभारूयासुरजितो विष्णोः कुटुम्बिनी विद्युद्वदुद्दामभिः स्वतश्राभिः स्वा
जुङ्गानां कान्तिभिः सकला अपि दिशः प्रकाशयन्ती सद्यः श्रीशंकररामे प्रादुरभूत् ॥२६॥
 देवेन्द्रवन्दितं पदद्वंद्वमभिवन्द्य कृताञ्जलिं पुरतः स्थितं श्रीशंकरं ललितस्तुतिभिः महर्षे
माप्ता स्मितपूर्वकं वचनमुवाच ॥ २७ ॥