पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२
भूमिका

भृतस्य भगवत्कैङ्कर्यधर्मस्यापवादगोष्ठीनाम् अपोहपूर्वक सरक्षणाय, पाञ्चकालिकप्रक्रियाणा परिष्कृतप्रयोगप्रदर्शनाय च पप्रन्नजनहितैषिभि श्रीमद्वेङ्कटनाथगुरुभि प्रणीतोऽय श्रीपाञ्चरात्ररक्षाग्रन्थ सर्वैरपि सत्सम्प्रदायाहितश्रद्वै सविमर्शं परामृश्येतेति परमोऽस्माक अभिसन्धि ।

 इद तावदन्ततो विशिष्य विषादावह न समभिधातुम्, यदुत तृतीयाधिकारे इज्याविधेर्विवरणावसरे हन्त ग्रन्थलोप सञ्जात इति, तत्र कियत्परिमितो वा ग्रन्थाशो लोपमवापेति न ज्ञातु शक्यत इति च[१] । अस्माभि सम्पादितेषु सर्वेष्वपि पुस्तकेषु "सर्वेषामन्ततो भगवत्प्राप्ति समानाविकलानामपि भागवतानाम्" इति वाक्यस्यानन्तर विषयलोप एकरीत्यैव दृश्यत इत्येतद्विचार्यमाणे, संवत्सराणा शतत्रय्या प्रागेव, आहोस्वित् श्रीवेदान्तदेशिकविरचितमूलकोश एव वा हेतुभिरस्मन्मनसोऽगोचरै कैश्चित् एष च प्रतिसंधातुमशक्य समुपनतो मध्ये ग्रन्थलोप इत्यवगम्यते, येन च मनागिव मनस्यस्माकम् आशाभङ्ग सपदि पद निदधे । श्रीभाष्यकारप्रणीतनित्यग्रन्थविवरणमुखेन इज्याया व्याख्याने श्रीवेङ्कटनाथेन सत्यपि सम्यक् प्रतिज्ञाते[२] "अथ परमैकान्तिन" इति भाष्यकारोक्तस्य परमैकान्तिशब्दस्य--तदीयनित्यग्रन्थोपक्रम एव विद्यमानस्य प्रथमपङ्क्तिवाक्यस्य--विवरणप्रकरणारम्भ एव विषयलोपस्य विलोक्यमानत्वात्, नित्यग्रन्थविवरणात्मकस्य विस्तृतस्य विशिष्टस्यापि विषयस्य विलोप प्राय समुपनत इति, यत्सत्यं साम्प्रदायिकेषु विषयेषु

सारभूतो निगमान्तगुरुभिर्निरूपित इज्याविधिः प्रायो विलयमशेषतश्चावापेति च नैराश्यविसस्थुलेन मनसा निर्णेतव्यमस्ति ।

  1. दृश्यता ग्रन्थेऽस्मिन् १३८ पुटादारभ्य १४७ पुट यावत् विषयस्यास्यावस्थिति ।
  2. दृश्यता १३८ पुटे प्राथमिक पङ्क्तिद्वयम् ।