पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
भूमिका

मुद्रिताः गृहीताः ग्रन्थाः । ग्रन्थाक्षरमयाः तालपत्रलिखिताः प्राचीनाः षट् च परस्तात् सम्पादिताः । ग्रन्थाक्षरैः प्रभिन्नेषु समयेषु मुद्रितास्त्रयोऽपि ने कोशाः प्रायः पाठत समानाः । आन्ध्राक्षरमुद्रितस्तु तेभ्य किञ्चिदिव विभिन्नः कियान् शुद्धश्च । तालपत्रलिखितेषु षट्सु कोशेषु "घ" संज्ञकस्य पाठत कालतश्च गरिष्ठत्वमालोच्य तदीयाः पाठा एव भूयसास्माभिरादृता इति पूर्वमुक्तम्। तथास्य ग्रन्थस्य शोधनाय सम्पादितानां पुस्तकानाममीषां विषयान् कांश्चनेह विवृणुमः । एतेषु "च" कोश एवान्ध्राक्षरमयः । तदितरे सर्वेऽपि नवग्रन्थाक्षरमयाः ।

 १ ”’क संज्ञितः कोशः””विलम्बिवत्सरे (कलौ ४९९९-क्रैस्तवे १८९९) मुद्रितः । इदमेव प्रथमोपलब्धं पुस्तकम् [१]। 'शखपुर राघवाचार्यपरिशोधितपुस्तकानुसारेण मुद्रितः' इति कोशस्य मुखपत्रे मुद्रितमास्ते । अनन्तरसम्पादितानां पुस्तकान्तराणां परामर्शानन्तरं प्रथमोपलब्धं पुस्तकमिदम् अपभ्रंश बाहुल्यविषयेऽपि प्रथमगणनीयमित्यवगतम् ।

  २ ”’क(अ)संज्ञितः कोशोऽयं”’ अड्यार् पुस्तकभाण्डागारात् उपलव्धः । “क" कोशात् षोडशवर्षेभ्यः पूर्व चित्रभानुवत्सरे (कलौ ४९८३ क्रैस्तवेे १८८२-८३) चेन्नपुर्या व्यवहारतरङ्गिणीमुद्रालये मुद्रित’ । 'शखपुर राघवाचार्यैः परिष्कृतशुद्धप्रतिवत् सम्यक् परिष्कृत्य मुद्रितोऽय ग्रन्थः' इति पूर्वस्मिन् पुस्तक इवात्रापि मुखपत्रे मुद्रितमास्ते । इत किञ्चिदूनवर्षद्वयात् प्राक् मुद्रिते “झ" सज्ञिते (अन्ततो निर्दिश्यमाने) कोशे शोधनपत्रेषु अन्ततः सूचिता शोधनाशाः प्रायेणात्र साधिता दृश्यन्ते । क्वचित् “झ" कोशः “क" कोशं चानुरुध्यैव मुद्रितोऽयं कोश इति समालोच्य, नास्य पृथक् पाठ भेदादिबोधकं किमप्यकारि सूचनमस्मिन् ग्रन्थे । वयमतः प्रायेण “झ" कोश स्थाने पुस्तकमिदं परिगणयाम ।

 ३ 'ख' संज्ञितः कोशः मद्रपुरराजकीयहस्तलिखितपुस्तकभाण्डागारात् प्राप्तः । D 5280 अङ्कचिह्नितः । शोभनैरक्षरैर्युक्तः । द्विनवतिवत्सरेभ्यः

  1. इदं तोट्टाल श्रीवेणुगोपालाचार्यस्य । मदीयमपि तथाविधमेव पुस्तकमन्यद्भवति । भेदरहितत्वात् एतयोरेकत्वमुपकल्प्यते ।