पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४२
श्रीपाञ्चरात्र​रक्षा

इत्यादिभिरनर्हतापादकानि सर्वाणि[१] तत्र तत्र द्रष्टव्यानि । सगृहीत च समाराधनोपयुक्तसर्वद्रव्यसाधारण्येन वङ्गिवशेश्वरै ---

"निषेधाविषयीभावादृते नैवापरो गुण ।
प्रीतिहेतु परेशम्य स्वार्चनाङ्गेषु वस्तुषु ॥" इति ।

आराधकस्यापि हि अर्चनाङ्गवस्तुत्वमविशिष्टम् । यथा च प्रशस्तजातिष्वेव तुलस्यादिपत्र-पद्मादिपुष्प-रम्भादिफल-गङ्गातोयादिषु तैस्तैरुपहतिनिमित्तैर्निषेधविषयता, एवमाराधकेऽपि यत कुतश्चिदुपघातात् आप्रायश्चित्तादनर्हतया निषेधविषयत्व भवति । अन्यथा 'नाविरतो दुश्चरितात्' इत्यादिश्रुतिकोपप्रसङ्गात् । उपहतिविषयस्पृष्टबिम्बादिषु च प्रायश्चित्तविधानात् । ब्रह्मविदोऽपि ह्युत्तराघाश्लेषवचन प्रामादिकविषय[२]मिति स्थापित भाष्यादिषु । "सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् "इत्यादिभिश्च सूत्रैरयमर्थ सिद्ध । अपि च राजवदुपचारो ह्यत्र विधीयते । राजोपचारवृत्तिश्चापचारपरिहारप्रधाना, तद्वदिहापि । यथा च गुणवति राजनि सेवकाना सापराधानामपि क्षामणमात्रेण निरपराधता तथेहापीति तल्लाभ[३] । इदमपि सगृहीतम्---

"अज्ञानादथवा ज्ञानादपराधेषु सत्स्वपि ।
प्रायश्चित्त क्षमस्वेति प्रार्थनैकैव केवलम्" ॥ इति ।

यत्त्वनन्तरमुक्तम्---

"अर्चनादिष्व​नर्हत्वान्न कश्चिन्नापराध्यति ।
अतोऽनङ्गीकृताशेषकर्तृदोषविमर्शया ॥
कृपयैवास्य देवस्य सर्वोऽप्यर्हति तत्क्रियाम्" ॥ इति---

  1. सर्वाणि---क, ख, ग, च, झ कोशेषु नास्ति
  2. प्रामादिकादिविषय---घ
  3. इति लाभ---घ, ड, छ