पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/२०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४१
तृतीयोऽधिकार

इति प्रतिपादितस्य परमात्मेतरसर्वविषयविरक्तस्य प्रव्रजिताधिकारिणो देवतान्तरवर्जनम्, तथा त्रिप्वप्याश्रमान्तरेषु प्रतिबुद्धाधिकारिणः । स्मर्यते च प्रव्रजिताना देवतान्तरार्चनत्याग । अत्रि ---

"त्रैकाल्यमर्चन विष्णोदेवताना तदात्मनाम् ।
नमस्कारार्चनादीनि कुर्यान्नान्यस्य कस्यचित् ॥" इति ।

क्र​तु--

"ईश्वरो भगवान् विष्णु परमात्मा महानज ।
शास्ता चराचरस्यैको यतीना पग्मा गति ॥" इति ।

पुन स एवाह--

"ध्यायतेऽर्चयते योऽन्य विष्णुलिङ्गमुपाश्रित ।
कल्पकोटिशतैश्चापि गतिस्तस्य न विद्यते ॥" इति ।

एवं प्रतिबुद्धाना सर्वेषा देवतान्तरवर्जन प्रागेव दर्शितम् । एतेन ---

"देवताप्रतिमा दृष्ट्वा यति चैव त्रिदण्डिनम् ।
नमस्कार न कुर्याच्चेदुपवासेन शुद्ध्यति ॥"

इत्यादिकमपि प्रतिबुद्धेतरविषय मन्तव्यम् । प्रतिबुद्धस्यापि स्वनमस्कारयोग्यभगवत्तत्परिवारादिप्रतिमासु लब्धावकाशमेतत् ।

निषेधानुवर्तने समा-
राधनानर्हत्वम् ।

 एवं परमैकान्तिशब्देनाधिकारिविशेष उक्त । तस्य च,

"परदाररतश्चैव परद्रव्यापहारक ।
न स्पृशेन्मामनादृत्य स्पृष्ट्वा च पतितो भवेत् ॥"