पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११९
तृतीयोऽधिकारः

"नखरोमाणि यश्चैव केशास्थीनि तथैव च ।
य क्षिपेन्मम गेहेषु तस्य पापफलं श्रृणु ॥
माक्षिकीं योनिमाश्रित्य नखरोमचितस्तदा ।
सप्त जन्मानि तत्रैव नरकानेकविंशतिम् ॥
ताम्बूलं चर्वितं यस्तु प्रक्षिपेन्मम मन्दिरे ।
स याति नरकं घोरं यावदाभूतसप्लवम् ॥
ततो मुक्तो महाभागे शुनकोऽपरजन्मनि ।
संस्थितस्रीणि जन्मानि वसत्येव न संशयः ॥
निष्ठीवनकरो यस्तु मन्दिरे मम सुन्दरि ।
कृमिभक्ष्ये पतेद्घोरे नरके पापकृन्नरः ॥
श्लेष्मातकतरुर्भूत्वा जायते जन्मपञ्चकम् ।
श्मशानमध्ये गत्वा तु यो नरो मामथार्चयेत् ॥
सप्तजन्मकृतात् पुण्यात्तत्क्षणान्मुच्यते नरः ।
सार्गालीं[१] योनिमाश्रित्य वसेज्जन्मत्रयं शुभे ॥
मूत्रयेन्मन्दिरे यस्तु मम देवि शुभानने ।
स मूत्रगर्तनरके पतत्येव ह्यवाक्छिरा ॥
तस्मान्मुक्तस्तु रक्तादिनिम्बक[२]द्रुममास्थितः ।
जनिष्यति वरारोहे ह्यष्टजन्मानि सौकरीम् ॥
पुरीषं वा प्रकुर्वीत यो नरो मम मन्दिरे ।
स याति नरकान् घोरान् पर्यायेणैकविंशतिम् ॥
ततो मुक्तो महाभागे विष्ठाया जायते कृमिः" ।

  1. मार्जाली - ख
  2. बिम्बकद्रुम—ड,छ