पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७८
श्रीपाञ्चरात्ररक्षा

"यस्य सर्वे समारम्भा अनाशीर्बन्धनास्त्विह ।
त्यागे यस्य हुतं सर्वं स त्यागी स च पण्डित " ॥

"अथ भो[१] भगवन्तं याचेत . न भो इत्याह आश्रयितव्यो भगवान् भवति न त्वेव याच्य " इति रहस्याम्नायादिचोदित प्रकारेण प्रयोजनान्तरप्रार्थनारहितै स्वयप्रयोजनत्वात् पञ्चम्वपि कालेप्वविच्छेदेन भगवत्सम्प्रीणनरुपशास्त्रीयकैङ्कर्यव्यापारेण यावन्यासविद्याख्य यागावभृथ आगामिनिश्रेयमकालनिर्विशेषमवन्ध्यकालो यापनीय इति सिद्धम् ।

अयमत्र सार--

पाञ्चकालिकधर्मानु
ष्ठानप्रयोजनम् ।

माङ्गल्यसूत्रवस्रादीन् संरक्षति यथा वधू ।
तथा प्रपन्न शास्त्रीयपतिकैङ्कर्यपद्धतिम् ॥
यद्वन्मङ्गलसूत्रादेस्त्यागे सरक्षणेऽपि वा ।
रक्षेन्नीरोधाद्भोगाद्वा[२] पतिस्तद्वदिहापि न ॥ इति ।

काल सर्वमिहाभ्युपेत्य भगवत्कैङ्कर्यमादेशिक
 तत्पर्वक्रमपञ्चके किमु वय मान्ये विमन्येमहि ।
त्यक्त्वा वशतिपञ्चक शतमिव प्राप्तु मुधा मुह्यता-
 मस्माकं सदसद्विवेकिषु मतं हासास्पद मा स्म भूत् ।

  1. अयि भो- क, च, झ
  2. निरोधैर्भोगैर्वा-क, ख, निरुन्ध्याद्भोगैर्वा–च