प्रशस्तनपूर्णशास्त्रार्थपरिग्रहौचित्यस्य प्रागेव दर्शितत्वात्. [१] भाष्यकार तदन्तेवासिप्रभृतिभिश्च प्रपत्त्येकनिष्ठैस्तदनुसारेण भगवद्भजनस्योक्तत्वात् तद्योग्यैश्चाद्ययावत्तदनुष्ठानस्य यथाशक्ति परिग्रहात् , अनिपुणपरित्यागम्यानादरणीयत्वात्[२] "यच्छील स्वामी तच्छीला प्रकृति" इति न्यायेन ।
इति वदता भगवता वसुदेवनन्दनेन स्वामिना तद्दासै समशीलैर्भवितव्यत्वात्, स्वामिसप्रीणनस्वरूपानुरूपवृत्तेश्च सर्वाभिमतत्वात्, तत्प्रीणनस्य च नित्याना मुक्तानामिव च मुमुक्षुभि प्रत्यक्षेणावगन्तुमशक्यत्वात् , 'श्रुति स्मृतिर्ममैवाज्ञा' इति तदुक्त्यनुसारेण शास्रादेव तत्प्रीणननिश्चयात् 'येनास्य पितरो याता ,' ' पञ्चरात्रोदितान् वापि ये स्ववंश्यैरनुष्ठिता ' इत्यादिप्रतिपादितप्रकारेण तत्तत्संहिताभेदभिदुरेषु परमात्मसंप्रीणन प्रस्थानभेदेषु काचिन्मर्यादामवलम्ब्य स्वतन्त्रप्रपत्तिनिष्ठैरपि स्वाधिकारोपदेशाद्यनुरुरूपम्
"कुसीदमेके विहरन्ति सर्वे |