पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६४
श्रीपाञ्चरात्ररक्षा

सन्तर्प्य" इति । तृतीयकालसाध्यं साक्षादिज्यारूप समाराधनमेवाह-

"न विष्ण्वाराधनात् पुयं विद्यते कर्म वैदिकम् ।
तस्मादनादिमध्यान्त नित्यमाराधयेद्धरिम् ॥
तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण च ।
नैवाभ्या सदृशो मन्त्रो वेदेषूक्तश्वतुर्ष्वपि ॥
निवेदयीत स्वात्मानं विष्णावमलतेजसि ।
तदात्मा तन्मना शान्तस्तद्विष्णोरिति मन्त्रत " ॥ इति ।

अत्र तद्विष्णोरित्यादे स्तुति न याज्ञवल्क्यादिविहितप्रणवाद्यपकर्षपरा । एवं विष्ण्वाराधनस्य सर्वोत्तरत्वकण्ठोक्ते पूर्वापरग्रन्थेषु सामान्यतो विशेषतश्च देवतान्तरार्चनवचनमन्तवत्परिमितफलार्थिप्रतिबुद्धेतराल्पमेधस पुरुषानधिकृत्येति मन्तव्यम् । गीयते च "अन्तवत्तु फल तेषा तद्भवत्यल्पमेधसाम् " इति । उक्तं च [१] महाभारते-----

"ब्रह्माणं शितिकण्ठं च याश्चान्या देवता स्मृता ।
प्रतिबुद्धा न सेवन्ते यस्मात् परिमितं फलम् ॥ " इति ।

आह् च बादरायण--

"नान्यं देवं नमस्कुर्याद्विष्णुपादाब्जसंश्रय । " इति
"कर्मणा परिपाकत्वादाविरिञ्चादमङ्गलम् ।
इति मत्वा विरक्तस्य वासुदेव परा गति ॥ ” इति च ।

  1. उत्तरत्र च-क, ख, ग, ज, झ