पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६३
श्रीपाञ्चरात्ररक्षा

"अक्लेशेन शरीरस्य कुर्वीत धनसचयम् ।
अप्रयत्नागता सेव्या गृहस्थैर्विषया सदा" ॥

इत्यादि ।

 अथ तृतीयकालकृत्यमाह -' ततो मध्याह्नसमये स्नानार्थे मृदमाहरेत्

व्यासस्मृतौ इज्या-
सवादनम् ।

"इत्यादिना । स्नाने चैव भगवदनुसन्धानमाह-----


"अभिमन्त्र्य जल मन्त्रैरब्लिङ्गैर्वरुणै शुभै ।
भावपूतं तदव्यग्र ध्यायन् वै विष्णुमव्ययम् ॥
आपो नारायणाद्भूतास्ता एवास्यायनं पुन ।
तस्मान्नारायण देव स्नानकाले स्मरेद्बूध " ॥ इति ।

तथा--

"त्रिपदा वात्र सावित्रीं तद्विष्णो परम पदम् ।
आवर्तयेद्वा प्रणवं देवं वा सस्मरेद्धरिम्" ॥ इति च ।

तर्पणेऽपि--

आदावोङ्कारमुच्चार्य नामान्ते [१] तर्पयामि च ।
देवान् ब्रह्म-ऋषींश्चैव तर्पयेदक्षतोदकै ॥
तिलोदकै पितृन् भक्तच्य सूत्रोक्तविधिना तत " ॥ इति ।

अत्र प्रणवपूर्वकत्वेन भगवदात्मकत्वानुसन्धानं विहितम् । एतदेव च नित्ये भाष्यकारैरपि दर्शितम्---“देवानृषीन् पितृन् भगवदात्मकान् ध्यात्वा

  1. नमोऽन्ते-ग, च, छ