गुरुं [१] चैवाप्युपासीत हित चास्य समाचरेत् । |
अत्र दक्षोक्तप्रक्रियया द्वितीयार्धयामसाध्यवेदाभ्यासादिपु [२] अदृष्टार्थाशो जपस्तोत्रशब्दाभ्या जयाख्यसंहितायामुपलक्ष्यते । वृत्तिकर्शितस्य कस्यचित्। दृष्टार्थाशो [३] ऽस्ति चेदभिगमनकालसङ्कोचेन परस्मिन्नुपादाने समन्वेति । अत्र देवनमस्कारोपहारनिवेदन-पुष्पादिप्रदानवचनादभिगमन सिद्धम् । देवनमस्कारश्चात्र विष्णुनमस्कार एव स्वरसत प्राप्त । निरुपाधिकदेवत्वस्य देवतान्तरनमस्कारस्यापि तत्रैव विश्रमात् । अत एवादौ "ध्यायीत मनसेश्वरम्” इति ध्येयतयोक्त ईश्वरोऽपि जयादिष्विव सर्वेश्वरेश्वरो विष्णुरेव । "ईश्वरो विक्रमी धन्वी " इति च तन्नामसु [४] पठ्यते । उत्तरत्र [५] " न विष्ण्वाराधनात् पुण्यं विद्यते कर्म वैदिकम्" इति स्वयमेवाभिधानाच्च । इदमेव विष्णुनमस्कारादिरूपमभिगमनं तत्परशास्त्रेष्वपि नानाप्रकारमुपदिश्यते । “देवादीना" इत्यादिशब्देन पित्रादिसग्रह ।
एवं प्रथमकालकर्तव्यमुक्त्वा द्वितीयकालसाध्यं
व्यासस्मृतौ उपादान-
संवादनम् ।
समाराधनोपकरणसम्पादनरूपमुपादानमाह --