पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/११२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७
द्वितीयोऽधिकार

तथैव दीक्षाविधिना जायमाना यथोदिता ।
पूजाविधेो भगवत प्रकल्पन्तेऽधिकारिण ॥" इत्यादि ।

 एव सहितान्तरेष्वपि ग्राह्यम् ।

 तदिह वत्तत्सिद्धान्तोक्तवर्त्मना चतुर्विधपञ्चरात्रिणा [१] साधारणमभिगमनादिपञ्चकम् ।

जयारव्यसहिताया
पञ्च काला पाञ्चका-
लिककर्माणि च ।

मन्त्रसिद्धान्तादिष्वपि हेि कालपञ्चकविभागोऽयमुपदिश्यते । यथोक्त साक्षाद्भगवन्मुखोद्रुततया रत्नत्रयमिति प्रसिद्धेषु जयाख्य सात्त्वतपौष्करेषु जयाख्यसहितायाम्------


नारद--

एको हि श्रूयते देवकालो लोके न चापर ।
पञ्च कालास्त्वयोद्दिष्टा किमेतन्मेऽत्र सशय ॥

श्रीभगवानुवाच--

एकस्यैव हि कालस्य वासरीयस्य नारद ।
आप्रभातान्निशान्त वै पञ्चधा परिकल्पना ।
पृथकर्मवशात् कार्या न काला बहव स्मृता ॥

नारद--

एककालाश्रिताना [२] च कर्मणा लक्षणं वद ।
परिज्ञातैस्तु यै सद्य कृतकृत्यो भवाम्यहम् ॥

श्रीभगवानुवाच--

ब्राह्मान्मुहूर्तादारभ्य प्रागश विप्र वासरे ।
जप-ध्यानार्चन-स्तोत्रै कर्म-वाक्-चित्तसयुतै ॥

  1. पञ्वरात्राणा- क, ख, ग, च, झ
  2. एककालस्थिताना—जयाख्यसहिता