पृष्ठम्:श्रीपाञ्चरात्ररक्षा.djvu/१११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४६
श्रीपाश्चरात्ररक्षा

ब्रह्मोवाच--

कर्षणादि प्रतिष्ठान्त कर्म यस्य प्रसिद्धये ।
त समाराधनविधि श्रोतुमिच्छामि सम्प्रति ॥
आराधनविधि कीदृगधिकारी च कीदृश ।
भगवस्तदशेषेण ब्रूहि मे भक्तवत्सल' ॥

एकायनिना मुख्य
मधिकारित्वम्
अन्येषा तु दीक्षया ।

श्रीभगवानुवाच--

श्रूयतामभिधास्यामि पृष्ट निरवशपत ।
आद्यमेकायन वेदं [१] सद्ब्रह्मप्रतिपादकम् ॥
तेनेव सस्कृता विप्रा मुख्यकल्पाधिकारिण ।
अन्येषा ब्राह्मणादीना वर्णाना दीक्षया क्रमात् ॥
अधिकारोऽनुलोमानामपि नान्यस्य कस्यचित् ।
पूजाविधौ भगवतस्तेऽनुकल्पाधिकारिण ॥
प्रतिलोमभुवा सूत प्रथमस्तत्र [२] शस्यते ।
त्रयाणा क्षत्रियादीनामनुलोमभुवामपि ॥
सूतस्य च विशेषेण दीक्षात्मार्थपरानिशम् [३]
परार्थयजन कुर्युर्विप्रा मुख्यानुकल्पयो ॥
नैवाधिकारिणो गौणा दीक्षासस्कारवर्जिता ।
यथैव दीक्षणीयेष्टया जायन्ते ब्राह्मणादय ॥

  1. वेद इत्येव सर्वत्र पाठ ।
  2. प्रथम तत्र- क, झ
  3. दीक्षामात्थ परानिशम्-क, ख, ङ , च, झ, दीक्षामार्थ परानिशम्-ज ।