पृष्ठम्:श्रीपरात्रिंशिका.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४८
परात्रिंशिका

मयी परमेशशक्तिः, एवं तु असौ परापररूपस्मृतिशक्तिमान् भैरव इत्याह 'प्रहरद्वयेत्यादि एवं तु स्मरन् जायते व्योम विद्यते यत्र पुर्यष्टके शून्ये च तत्प्रमातृरूपतामादधानः प्रहरोपलक्षितं दर्शनाख्यं रूपं यदा पुनः पुनः परामृशति स्मरत्यपि च प्राग्वत् 'साक्षात्पश्यत्यसंदिग्धमाकृष्टो रुद्रशक्तिभिः' इति संबन्धः। तावद्धि तदपि दर्शनमेव, इत्युक्तम् । एवं तु 'अपरात्मकविकल्पशक्तियुक्त' इत्युच्यते, त्रये- णेति-पश्यन् स्मरंश्च व्योमस्थो यदा पुनरपि पश्यति तदनेन प्रहरोपलक्षितदर्शनत्रयेण मा- तरोऽन्तःप्रमातृमय्यः परमेशशक्तयः ताश्च प्र- मातृत्वादेव सिद्धाः प्रमात्रन्तरविषयसिद्ध्यनपे- क्षाः तद्रूपैकात्म्यलक्षणेन योगेनैश्वर्य तथा गृही- तस्वातन्त्र्यांशाः, महत्- बाह्येन्द्रियवृत्त्यपेक्षया सर्वत्राप्रतिहतप्रसरत्वं बलं यासां ता अन्तः- करणदीधितयः ता अपि सिद्धा एव-विश्वत्र पाशवशासनयन्त्रणानिरपेक्षतयैव सरभसप्रवृत्ति-