पृष्ठम्:श्रीपरात्रिंशिका.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

निविष्टज्ञानशक्त्याभिमुख्येन देवताया इच्छा- या रूपं रूपाणां कलनम् , साक्षस्य सेन्द्रियस्य रूपस्यादनं भक्षणमतनं च सातत्यगमनं कृत्वा रोधनद्रावणरूपशक्तिभिराकृष्टः पश्यति असंदिग्धं कृत्वा, एतदुक्तं भवति-यदिदं दर्शनं नाम तत्सर्वतरङ्गप्रत्यस्तमयाख्याकुलसत्ताधि- रूढस्य अनन्तमहिमस्वातन्त्र्ययोगात् इच्छा- शक्तिमतः सैवेच्छा स्वान्तर्गता इष्यमाणवस्तुन ईषदस्फुटभेदावभासनरूपज्ञानशक्त्यात्मकता- मेति तज्ज्ञानशक्तिविशेषस्पन्दनरूपसमस्तेन्द्रि- याणां बहीरोधनम् एतदेव सातत्यगमनम् , तच्च द्रावणं तदेव भक्षणम् एते एव वमनभक्षणे दर्शनस्य सर्वप्रथैकमयत्वात् प्रथायाश्च तथावि- धवैचित्र्ययोगात्, अनिश्चितोभयालम्बनत्वमपि स्थाणुपुरुषादावपि असंदिग्धमेव, एवं दुष्कृत-

१ अद् भक्षणे, अत सातस्यगमने इति धातू । पं० १ ग० पु. इच्छारूपं रूपाणां कलानामिति पाठः ।

पं०३ क० ग० पु० भक्षणं सततं च सातत्येति पाठः ।