पृष्ठम्:श्रीपरात्रिंशिका.pdf/२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमच्छ्रीकण्ठनाथप्रभृतिगुरुवरादिष्टसन्नीतिमार्गों
 लब्ध्वा यत्रैव सम्यक्पटिमनि घटनामीश्वराद्वैतवादः ।
कश्मीरेभ्यः प्रसृत्य प्रकटपरिमलो रञ्जयन्सर्वदेश्यान्
 देशेऽप्यस्मिन्नदृष्टो घुसृणविसरवत्स्तान्मुदे सज्जनानाम् ॥१॥


तरत तरसा संसाराब्धि विधत्त परे पदे
 पदमविचलं नित्यालोकप्रमोदसुनिर्भरे।
विमृशत शिवादिष्टाद्वैतावबोधसुधारसं
 प्रसभविलसत्सद्युक्त्यान्तःसमुत्प्लवदायिनम् ॥२॥