पृष्ठम्:श्रीपरात्रिंशिका.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

ताया ऊधोरूपा ऊढसकलभावराशिः सुस्फुटा प्रस्मृता ज्ञानशक्तिः 'ऊ' इति । तदेवमेते परमेश्वस्य भैरवस्य द्वे शक्ती, प्रथमा स्वरूपपरिपूरणारूपत्वात् पूर्णा चान्द्रमसीशक्त्यव्यतिरेकाच्च सहोमया वर्तत इति सोमरूपा स्वानन्दविश्रान्तिभावा इच्छाख्या कलना महासृष्टिव्यपदेश्या, यद्वक्ष्यते 'तत्र सृष्टिं यजे दिति' (२८)। द्वितीया तु तत्स्वरूपभावराशिरेचनानुप्रवेशोद्रिक्ता तद्रेचनादेव कृशा भावमण्डलप्रकाशनप्रसारणव्यापारा सूर्यरूपा स्वरूपभूता कुलसंवित्संजिहीर्षात्मिका महासंहारशक्तिर्ज्ञानाख्या, तत्रापि च प्रसरत्प्राक्तनरूपपर्यालोचनावशात् स्वात्मनि यथाक्रमं सोमसूर्यरूपतायुगलकभावेन स्वसंविदात्मकं भावाख्यं च रूपमवेक्ष्य विपर्ययोऽपि सोमसूर्यात्मकसृष्टिसंहतिकलनयोः, न च 'अत्रानवस्था-ज्ञानेच्छयो-

पं. १ क. पु. ऊर्ध्वाधोरूपारूढेति ति, ग• पु• ऊर्ध्वोपारूढेति पाठः । पं. १२ ग० पु. प्रसरत्तत्प्राक्तनेति पाठः । पं० १३ ग० पु० सूर्यसोमरूपभायुगलेति पाठः । 22