पृष्ठम्:श्रीपरात्रिंशिका.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६८
परात्रिंशिका

वशक्तिमद्विमर्शसत्तेयं तादृश्येव पुनः प्रसरन्ती आनन्दशक्तिः 'आ' इति प्रसृता । परिपूर्णेच्छा 'इ' इति । इच्छैव भाविज्ञानशक्त्यात्मकस्वातन्त्र्येण जिघृक्षन्ती ईशनरूपा 'ई' इति । उन्मिषन्ती तु ज्ञानशक्तिरिष्यमाणसकलभावोन्मेषमयी 'उ' इति । उन्मिषतैव उन्मिमिषतामपि अन्तःप्राणसर्वस्वरूपोन्मेषोत्तरैकरूपैरपि अन्तःकरणवेद्यदेशीयास्फुटप्रायभेदांशभासमानभावराशिभिः संकोचवशेन ऊनीभूतानुत्तरसंवित्सर्वभावगर्भीकारेण अनङ्गधैनवीरूपपरदेव-

१ तादृश्येवेति, परस्परौन्मुख्यात्मिका स्पन्दरूपा स्वात्मोच्छलत्तेत्यर्थः।

यदा तु तस्य चिद्धर्मप्रभवामोदजृम्भया ।
विचित्ररचना नानाकार्यसृष्टिप्रवर्तने ।
भवत्युन्मुखिता चित्ता सेच्छायाः प्रथमा तुटिः।'

इति स्पन्दारिमका बहिरौन्मुख्यमात्ररूपिणी स्रष्टव्यानारूपितेच्छामात्ररूपा वा स्यात् तत्तदीशनीयविषयारूपणया प्रक्षोभात्मप्रयत्नरूपतां श्रयन्ती बह्वीरूपतयैश्वर्य भजमाना चेत्यस्या द्वैधम् । यदुक्तं मध्यायां 'सा केवलमिच्छामात्ररूपा स्रष्टव्यस्य विप्रकृष्टा काचित् पुनः प्रयत्नतामापन्ना सन्निकृष्टेति' तत्रेशानरूपत्वमस्याः ।