पृष्ठम्:श्रीपरात्रिंशिका.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
परात्रिंशिका

च्छाप्रकल्पितः - तन्नामाक्षरलिप्यादिगताप्या- यनादिकर्मविधिजनिततच्छान्तिकादिफलसंपत्तेः, इति चेत् - तर्हि एकेनैव संकेतेन सर्ववस्तुसंपत्तौ किं संकेतान्तराश्रयेण तदाश्रयणे वा स्वशास्त्रितशास्त्रान्तरीयलौकिकपार्षददैशिकघ- नकृतप्रतिपुरुषनियताद्यनन्तसंकेतनिवेशनपूर्वकं, तदपि निरूप्यमेव, न तावद्भिरुपयोगः, एतावतैव कार्यसिद्धिः-इत्यपि निरक्षरकुक्षिकुहरैः उच्यमानं श्रूयमाणं च शोभत एव । अविकला भगवदिच्छा न विचारपदवीमधिशेते? इति चेत् - अलं ग्रन्थधारणवाचनव्या- ख्यानविचारणादिमिथ्यायासेन, परित्याज्य एवायं गुरुभारः, तूष्णींभावशरणैरेव स्थेयम्, भग- वदिच्छैवोत्तारणीयमुत्तारयेत्, तदिच्छैव अनुग्रहात्मा एवं विचारणायां पर्यवसाययति, न


पं. ४ ख. पु० संकेतान्तरेण इति पाठः ।
पं० ७ ख० पु.अपि निरूप्यमिति पाठः ।

पं० १० क. पु० पदवीमश्नुते इति पाठः ।