पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्तस्य स्पर्शं चतुर्भिर्मन्त्रैः कारयेदिति सूत्रार्थः । चत्वारि यजूंषि औपरवाणि । तत्र प्रथमं हे प्रथमगर्त, त्वं स्वराडसि स्वेनैव राजत इति स्वराट् स्वयमेव राजमानो भवसि । अतः सपत्नहा शत्रुघाती भवेति शेषः । अथ द्वितीयं सत्रराट् सत्रेषु द्वादशाहादिषु राजत इति सत्रराट् । अभिमातिहा शत्रुघाती । अथ तृतीयं जनराट् जनेषु यजमानेषु राजत इति जनराट् । रक्षोहा यज्ञविनाशकराक्षसघाती । अथ चतुर्थं सर्वराट् सर्वेषु राजत इति सर्वराट् अमित्रहा शत्रुघाती ॥ २४ ॥

पञ्चविंशी।
र॒क्षो॒हणो॑ वो वलग॒हन॒: प्रोक्षा॑मि वैष्ण॒वान् र॑क्षो॒हणो॑ वो वलग॒हनोऽव॑नयामि वैष्ण॒वान् र॑क्षो॒हणो॑ वो वलग॒हनोऽव॑स्तृणामि वैष्ण॒वान् र॑क्षो॒हणौ॑ वां वलग॒हना॒ उप॑ दधामि वैष्ण॒वी र॑क्षो॒हणौ॑ वां वलग॒हनौ॒ पर्यू॑हामि वैष्ण॒वी वै॑ष्ण॒वम॑सि वै॑ष्ण॒वा स्थ॑ ।। २५ ।।
उ० प्रोक्षत्येतान् । रक्षोहणः रक्षसां हन्तॄन् वः युष्मान् वलगहनः वलगस्य हन्तॄन् प्रोक्षामि सिंचामि वैष्णवान् विष्णुदेवत्यान् । अपनयति । रक्षसां हन्तॄन् वः युष्मान् वलगस्य हन्तॄन् प्रति अपनयामि । अवाचीनम् अपः प्रापयामि । वैष्णवान् । अवस्तृणाति । रक्षसां हन्तॄन् युष्मान् वलगस्य च हन्तॄन् प्रति अवाचीनान्दर्भान स्तृणामि वैष्णवान् । अधिषवणे फलके उपदधाति । रक्षसां हन्तृणी वां युवां वलगस्य हन्तृणी उपदधामि स्थापयामि । वैष्णवी विष्णुदैवत्ये । पर्यूहति । रक्षोहणौ वां पर्यूहामि परिप्रापयामि संलग्ने करोमि । व्याख्यातमन्यत् । तत्राधिषवणं चर्म निदधाति । वैष्णवमसि विष्णुदेवत्यमसि । तस्मिन् ग्राव्णः पञ्च वैष्णवाः स्थ विष्णुदेवत्या भवथ ॥ २५ ॥
म० 'प्रोक्षत्येनान् रक्षोहण इति भेदे मन्त्रावृत्तिरिति' (का० ८ । ५ । २२-२३) चतुरो गर्तान्मन्त्रेण प्रोक्षेत् । तस्य मन्त्रस्य गर्तभेदे सत्यावृत्तिः कर्तव्येति सूत्रार्थः । सप्त यजूंषि वैष्णवानि । वैष्णवान्विष्णुदेवताकान् गर्तान्वो युष्मान्प्रोक्षामि । कीदृशान् । रक्षोहणो राक्षसहन्तॄन् वलगहनः अभिचारसाधनहन्तॄन् । 'अवनयनेऽवस्तरणे चावटवद्रक्षोहणो रक्षोहण इति' (का० ८ । ५। २४ ) । गर्तेषु प्रोक्षणशेषोदकसेचनमवनयनं दभैराच्छादनं संस्तरणं तयोर्द्वयोरपि क्रिययोर्गतभेदात्तन्मन्त्रावृत्तिर्द्रष्टव्येति सूत्रार्थः। तत्रावनयनमन्त्रः । अवनयामि सिंचामि । अन्यत्पूर्ववत् । अथावस्तरणमन्त्रः । आस्तृणामि दर्भैराच्छादयामि । अन्यत्पूर्ववत् । 'तनूनुपरि कुशान्कृत्वाधिषवणे फलके द्व्यङ्गुलान्तरे प्रक्षालिते प्राची अरत्निमात्रे संतृण्णे वोपदधाति पर्यूहति च रक्षोहणौ रक्षोहणाविति' (का० ८ । ५।२५) ययोः फलकयोरुपरि सोमोऽभिषूयते ते द्वे अधिषवणफलके तयोरुभयोर्मध्ये द्व्यङ्गुलव्यवहिते अरत्निप्रमाणे संतृण्णे ईषद्बन्धनोपेते चतुर्णां गर्तानामुपरि स्थापयेत् । तयोः परितो मृदा छिद्रपिधानं कुर्यादित्यर्थः । तत्रोपधानमन्त्रः । यावधिषवणफलकविशेषौ रक्षोहणौ रक्षसां नाशकौ वलगहनौ कृत्याविनाशकौ वैष्णवी वैष्णवौ विष्णुदेवताकौ । लिङ्गव्यत्ययः । तौ वां युवामहमुपदधामि द्वयोर्गर्तयोरुपरि एकैकं फलकं स्थापयामि । अथ पर्यूहणमन्त्रः । पर्यूहामि मृदा परितश्छादयामि । अन्यत्पूर्ववत् । 'तयोश्चर्माधिषवणं परिकृत्तᳪ सर्वरोहितं निदधाति वैष्णवमसीति' (का० ८ । ५ । २६ )। यस्मिंश्चर्मणि सोमोऽभिषूयते तच्चर्माधिषवणाख्यम् अग्रभागे छिन्नं सर्वमपि लोहितवर्णं तयोः फलकयोरुपरि स्थापयेदिति सूत्रार्थः । हे चर्म, त्वं वैष्णवमसि यज्ञरक्षकविष्णुसंबन्धि भवसि । 'तस्मिन् ग्राव्णः पञ्च वैष्णवाः स्थेति' (का० ८।५।२७) । निदधातीत्यनुवर्तते । तस्मिंश्चर्मणि । सोमाभिषवहेतून् पञ्च पाषाणान्स्थापयेदिति सूत्रार्थः । हे ग्रावाणः, यूयं वैष्णवाः स्थ यज्ञरक्षकविष्णुसंबन्धिनो भवथ ॥ २५॥

षड्डिशी।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ द॑दे॒ नार्य॑सी॒दम॒हᳪ रक्ष॑सां ग्री॒वा अपि॑ कृन्तामि ।
यवो॑ऽसि य॒वया॒स्मद्द्वेषो॑ य॒वयारा॑तीर्दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा शुन्ध॑न्तांल्लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑नमसि ।। २६ ।।
उ० इत उत्तरमौदुम्बरीमन्त्राः । अभ्रिमादत्ते । देवस्य त्वेति । व्याख्याते द्वे यजुषी । यवानावपति । यवोसि । 'यु पृथग्भावे' यौतीति यवः । यस्माद्यवनक्रियायोगाद्यव इत्येतन्नामा त्वमभूः तस्मात् यवय पृथक्कुरु । अस्मत् अस्मत्तः द्वेषोऽप्रीतिः दौर्भाग्यम् यवय । अरातीः अदानानि । सौभाग्यं दानं च प्रार्थ्यते । औदुम्बरीं प्रोक्षति । दिवे त्वा। दिवेर्थाय त्वां प्रोक्षामीति शेषः । अन्तरिक्षाय त्वा पृथिव्यै त्वा । प्रथमेन यजुषा व्याख्याते यजुषी। अवटे शेषमासिञ्चति। शुन्धन्तां लोकाः । शुन्ध्यन्तामिति विकरणव्यत्ययः। दिवादिभ्यः श्यन्प्राप्नोति स न भवति । पितरो येषु लोकेषु सीदन्ति आसते पितृषदनाः । बर्हींषि प्रास्यति पितृषदनमसि । पितर एषु सीदन्तीति पितृषदनम् ॥ २६ ॥
म० इत उत्तरमौदुम्बरीमन्त्राः । 'औदुम्बरीं मिनोति यजमानमात्रीं यूपवच्छेतेऽभ्र्यादि करोत्यावस्तरणादिति' (का. ८।५ । ३०-३२) । उदुम्बरवृक्षादुत्पन्नां कांचिच्छाखां यजमानदेहमितां सदोमण्डपमध्ये निखनेत् । सा च शाखा निखननात्पूर्वं यूपवद्भूमौ शयित्वा वर्तते यूपावटखननवदभ्रिस्वीकारमारभ्य दर्भोपस्तरणपर्यन्तान्पदार्थान्मन्त्रैरेव कुर्यादिति सूत्रार्थः । सूपावटप्रदेशे 'देवस्य त्वेत्यभ्रिमादायेति' (का.