पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भ्याख्यो मध्यदेशस्तस्य श्रोण्यंसेषु आग्नेयैशकोणावंसौ वायव्यनैर्ऋतकोणौ श्रोणी तेषु चतुर्षु मध्ये च जुह्वां पञ्चवारं गृहीतेनाज्येन जुहुयात् । कथम् । अक्ष्णया कोणसूत्रप्रदेशेन । तद्यथा । प्रथमं दक्षिणेंऽसे तत उत्तरश्रोणौ ततो दक्षिणश्रोणौ तत उत्तरांसे ततो मध्ये एवं पञ्चसु स्थानेषु हिरण्यं निधाय तदवलोकयन्पञ्चभिर्मन्त्रैर्जुहुयादिति सूत्रार्थः । पञ्च यजुषां वाग्देवता । पुरा कदाचिदुत्तरवेदिदेवता केनापि निमित्तेन देवेभ्योऽपक्रम्यासुरानप्राप्योभयोर्दैवासुरसेनयोर्मध्ये सिंहरूपं धृत्वा तस्थौ । तदयं मन्त्र आह । तदुक्तं तित्तिरिणा 'तेभ्योऽपक्रम्योत्तरवेदिः सिंहीरूपं कृत्वोभयानन्तरातिष्ठत्' इति । तदभिप्रेत्य सिंही उच्यते । हे उत्तरवेदे, त्वं सिंह्यसि सिंहरूपा भवसि तादृश्यै तुभ्यं स्वाहा हविर्दत्तम् । सिंह्यसि किंभूता । आदित्यवनिः आदित्यान् वनुते संभजति प्रीणयतीत्यादित्यवनिः । अन्यत्पूर्ववत् । सिंह्यसि ब्रह्मवनिः क्षत्रवनिः ब्रह्म क्षत्रं च वनुत इति ब्राह्मणजातिक्षत्रियजात्योः प्रीणयितृत्वमत्र विशेषः । सिंह्यसि सुप्रजावनिः पुत्रपौत्रादिरूपायाः शोभनप्रजायाः संपादयित्री । रायस्पोषवनिः सुवर्णरजतादिधनपुष्टेः संपादयित्री । सिंह्यसि यजमानाय यजमानोपकारार्थं देवानावहानयेति विशेषः । 'भूतेभ्यस्त्वेति स्रुचमुद्यच्छतीति' (का० ५ । ४ । १५)। भूतेभ्यः जरायुजाण्डजादिचतुर्विधभूतग्रामप्रीत्यर्थं हे होमविशेषाज्ययुक्ते जुहूः, त्वामुद्यच्छामीति शेषः । तदाह तित्तिरिः ‘भूतेभ्यस्त्वेति स्रुचमुद्गृह्णाति य एव देवा भूतास्तेषां तद्भागधेयं भवति तानेव तेन प्रीणाति' इति ॥ १२ ॥

त्रयोदशी।
ध्रु॒वो॒ऽसि पृथि॒वीं दृ॑ᳪह ध्रुव॒क्षिद॑स्य॒न्तरि॑क्षं दृᳪहाच्युत॒क्षिद॑सि॒ दिवं॑ दृᳪहा॒ग्नेः पुरी॑षमसि ।। १३ ।।
उ० परिधीन्परिदधाति । ध्रुवोऽसि । यस्मादधियज्ञं ध्रुवः स्थिरः त्वमसि तस्मात् पृथिवीं दृᳪह दृढीकुरु । ध्रुवक्षित् । ध्रुवे नित्ये यज्ञे क्षियतीति ध्रुवक्षित् । यस्मात्त्वं ध्रुवक्षिदसि तस्मादन्तरिक्षं दृढीकुरु । अच्युतक्षित् । अच्युते यज्ञे क्षियतीत्यच्युतक्षित्। यस्मात्त्वमच्युतक्षिदसि तस्माद्दिवं दृढीकुरु । संभारानुपनिवपति । अग्नेः पुरीषमसि अग्नेः पूरयितृ भवसि । 'शरीरं हैवास्य पीतदारु' इत्यादिश्रुतिः। संभाराणां शरीरपूरणात्पुरीषत्वमुपपद्यते ॥ १३॥
म०. 'नाभिं पैतदारवैः परिदधाति पूर्ववद् ध्रुवोऽसीति प्रतिमन्त्रमिति' (का० ५। ४ । १६) । पीतदारुर्देवदारुः तदीयैः परिधिभिरुत्तरवेदेर्मध्यदेशरूपां नाभिं परिदध्यात्पूर्ववद्दर्शपौर्णमासेष्टौ यथा पश्चिमदक्षिणोत्तरेषु तथात्रापीति सूत्रार्थः । त्रयाणां परिधयो देवताः । हे मध्यमपरिधे, त्वं ध्रुवः स्थिरोऽसि । अतः पृथिवीं दृंह दृढीकुरु । हे दक्षिणपरिधे, त्वं ध्रुवे स्थिरे यज्ञे क्षियति निवसति ध्रुवक्षिदसि तस्मादन्तरिक्षं दृढीकुरु । अच्युते विनाशरहिते यज्ञे क्षियति निवसतीत्यच्युतक्षित् हे उत्तरपरिधे, त्वं तादृशोऽसि तस्माद्दिवं द्युलोकं दृंह । 'अग्नेः पुरीषमिति निवपति गुग्गुलुसुगन्धितेजनवृष्णेः स्तुकाश्चोपरि शीर्षण्या अभावेऽन्या इति' (का. ५।४ ।१७) गुग्गुलुर्धूपद्रव्यं, सुगन्धितेजनं तृणविशेषः, वृष्णे: स्तुका अविरोमाणि । एतानि नाभौ प्रक्षिपेदिति सूत्रार्थः । हे गुग्गुलुप्रभृतिसंभारसमूह, त्वमग्नेः पुरीषं पूरकमसि । पूरयतीति पुरीषम् । 'अग्नेर्ह्येतत्पुरीषं यत्संभाराः' इति तित्तिरिः ॥ १३ ॥

चतुर्दशी।
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चित॑: ।
वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुति॒: स्वाहा॑ ।। १४ ।।
उ०. सावित्रं जुहोति । युञ्जते मनः । अधियज्ञानुवादिनी सावित्री जगती यस्मात्सवित्रा प्रसूता ऋत्विजो युञ्जते मनः मनांसि । उत युञ्जते धियः अपि च युञ्जते प्रेरयन्ति धियो वाचः । कथंभूता ऋत्विजः प्रेरयन्ति । विप्राः ब्राह्मणाः शुश्रुवांसोऽनूचानाः । विप्रस्य प्राप्तक्रियाशक्तेः फलदानंप्रति यज्ञस्य कर्मणि ब्राह्मणस्य । श्रुतौ वैश्यक्षत्रियावपि यजमानावग्निष्टोमे दीक्षितोऽयं ब्राह्मण इत्युच्यतेऽतस्तावपि ब्राह्मणशब्देनोच्यते । बृहतो महतः । विपश्चितो मेधाविनः सर्वस्य यज्ञस्य । किंच त एव सवित्रा प्रसूता ऋत्विजः। विहोत्रा दधे विदधत इति वचनविपर्ययः। अथ होत्राः सप्त वषट्कर्तारो होत्रा इत्युच्यन्ते। 'अथ होत्राः संयाजयन्ति' इति श्रुतिः। 'सौत्येऽहनि सप्त होतारो वषट्कुर्वन्ति' तदेतदुच्यते । वयुनाविदेक इत् । वयुनं वेत्तेः कान्तिर्वा प्रज्ञा वा । इच्छब्द एवार्थे । सर्वेषामेवर्त्विजां मध्ये सवित्रा प्रसूतो ब्रह्माख्यः एक एव ऋत्विक् । वयुनावित् त्रिवेदज्ञानान्वितो भैषज्यं करोति । मही देवस्य सवितुः परिष्टुतिः । महती देवस्य दानादिगुणयुक्तस्य सवितुः सर्वस्य प्रसवितुः परिष्टुतिः परिस्तवनम् । को हि नाम यज्ञं प्रेत्यर्त्विजः प्रस्तूय समाप्स्यति यज्ञम् । यज्ञो हि वृष्टिद्वारेण समस्तं जगद्बिभर्तीति सवितुर्महती स्तुतिरित्युक्तम् ॥ १४ ॥
म० अस्ति तावत्प्राचीनवंशा शाला । तस्यामाहवनीयाद्यग्नित्रयमैष्टिकवेदिश्चास्ति । तस्याः शालायाः पुरतः षट्त्रिंशत्पददीर्घा सौमिकी वेदिर्विधेया । तद्वेद्या अग्रभागे पूर्वोक्तोत्तरवेदिः । ततः पश्चान्मध्यभागे हविर्धानाख्यो मण्डपो विधेयः। ततोऽपि पश्चात्सदोऽभिधानोदग्वंशा शाला निर्मातव्या । तस्याः स्थाने प्राचीनशालायाः पुरतो दक्षिणोत्तरभागयोर्हविर्धानसंज्ञके द्वे शकटे स्थापिते स्तः । तच्छकटद्वयं पुरतः प्रवर्त्य