पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तदावरकत्वेन हविर्धानाख्यमण्डपो विधेयः । तच्छकटद्वयं सावित्रहोमादूर्ध्वं प्रवर्तनीयम् । तदाह तित्तिरिः 'सावित्र्यर्चा हुत्वा हविर्धाने प्रवर्तयति' इति । तं होमं विधत्ते कात्यायनः 'चतुर्गृहीतᳪ शालाद्वार्ये जुहोति युञ्जत इति स गार्हपत्योऽतः' (८ । ३ । २९) इति । प्राचीनशालाया द्वारसमीपे पूर्वसिद्ध आहवनीयो वर्तते तस्मिन् जुहुयात्स च पूर्वमाहवनीयोऽपि सन्नुत्तरवेद्याख्येऽन्यस्मिन्नाहवनीये निष्पन्ने सति तदपेक्षया स्वयं गार्हपत्यो भवतीति सूत्रार्थः । सावित्री जगती श्यावाश्वदृष्टा । विप्रस्य ब्राह्मणस्य यजमानस्य संबन्धिनो विप्रा ब्राह्मणा ऋत्विजो मनो युञ्जन्ति लौकिकचिन्ताभ्यो मनो निवार्य यज्ञचिन्तायां नियमयन्ति । उत धिय इन्द्रियाण्यपि यज्ञार्थेषु नियमयन्ति । कीदृशस्य विप्रस्य । बृहतो महतः । तथा विपश्चितः सर्वज्ञस्य । अधीतवेदत्वाद्बृहत्त्वमर्थाभिज्ञत्वाद्विपश्चित्त्वम् । किंभूता विप्राः । होत्राः होमकर्तारः । तदिदं विप्राणां मनोनियमनादिसामर्थ्यमेकइत् एकएव विदधे ससर्ज । किंभूत एकः । वयुनावित् 'वयुनं वेत्तेः कान्तिर्वा प्रज्ञा वा' (निरु० ५। १४) इति यास्कोक्तेर्वयुनं प्रज्ञां सर्वभूतानां मनोवृत्तिं वेत्तीति वयुनवित् । संहितायां दीर्घः । सर्वधीसाक्षीत्यर्थः । नन्वेकस्य सर्वसृष्टौ कथं सामर्थ्यं तत्राह । यतः सवितुः प्रेरकस्यान्तर्यामिणो देवस्य परिष्टुतिः सर्वदोक्ता स्तुतिः मही महती । तथाचाथर्वणिकाः 'यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः' इति । बृहदारण्यकेऽपि स एव सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किंच' (मा० ४ । २ । २४ । का० ४।४ । २१) इति । श्वेताश्वतराश्च 'परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च' इति । यद्वास्य मन्त्रस्यार्थान्तरम् । विप्रा ऋत्विजो विपश्चितो यज्ञस्य कर्मणीति शेषः । मनो धियो वाचश्च युञ्जते प्रयुञ्जते । 'यज्ञो वै विपश्चित्' (३ । ५। ३ । ११) इति श्रुतेः । किंभूतस्य विपश्चितः । विप्रस्य विशेषेण प्राति पूरयति फलमिति विप्रस्तस्य । फलदानं प्रति प्राप्तक्रियाशक्तेः । 'प्रा पूर्तौ' । तथा बृहतः महतः सर्वसाधनसंपन्नस्य । होत्रा होतारः सप्त वषट्कर्तारः विदधे विदधते स्वस्वकर्मणीति शेषः । पुरुषवचनव्यत्ययः । तन्मध्ये वयुनाविदेकइत् त्रिवेदज्ञानवान्ब्रह्माख्य एक एव । सवितुर्देवस्य मही महती परिष्टुतिः स्तवनम् । ब्रह्माद्या ऋत्विजो यत्कर्म कुर्वते तत्सवितुः प्रेरणेनैवेति सवितुर्महती स्तुतिरित्यर्थः ॥ १४ ॥

पञ्चदशी।
इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् । समू॑ढमस्य पाᳪसु॒रे स्वाहा॑ ।। १५ ।।
उ० दक्षिणे वर्त्मनि हिरण्यं निधाय जुहोति । इदं विष्णुः । गायत्री वैष्णवी । इदं जगत् विष्णुर्विचक्रमे विक्रान्तवान् । सर्वप्राणिनो हि भूतेन्द्रियमनोजीवभावेनाविशतीति विष्णुः । किंच त्रेधा निदधे पदम् । पद्यते ज्ञायतेऽनेनेति पदम् । भूम्यन्तरिक्षद्युलोकेषु अग्निवायुसूर्यरूपेण त्रिधा निहितवान् पदम् । किंच समूढमस्य पाᳪसुरे । अस्यैव विष्णोरन्यत्पदान्तरं विज्ञानघनानन्दमजमद्वैतमक्षरमित्येवंलक्षणम्, समूढमन्तर्हितमविज्ञातमकृतात्मभिः । पांसुरे । लुप्तोपममेतत् । पांसुल इव प्रदेशे निहितं न दृश्यते तत्समूढमिति द्रष्टव्यमिति वाक्यशेषः । तदुक्तम् । 'तद्विष्णोः परमं पदᳪ सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम्' इति ॥ १५॥
म० 'दक्षिणे वर्त्मनि दक्षिणस्यानसो हिरण्यं निधायाभिजुहोतीदं विष्णुरिति' ( का० ८।३ । ३१) । दक्षिणशकटसंबन्धिदक्षिणचक्रमार्गे हिरण्यं निधाय तत्रैष होमः । विष्णुदेवत्या गायत्री मेधातिथिदृष्टा । विष्णुः त्रिविक्रमावतारं कृत्वा इदं विश्वं विचक्रमे विभज्य क्रमते स्म । तदेवाह । त्रेधा पदं निदधे भूमावेकं पदमन्तरिक्षे द्वितीयं दिवि तृतीयमिति क्रमादग्निवायुसूर्यरूपेणेत्यर्थः । पांसवो भूम्यादिलोकरूपा विद्यन्ते यस्य तत्पांसुरं तस्मिन्पांसुरे अस्य विष्णोः पदे समूढं सम्यगन्तर्भूतं विश्वमिति शेषः । यद्वायमर्थः । अस्य विष्णोः पदं पद्यते ज्ञायत इति पदमद्वैताख्यं स्वरूपं समूढमन्तर्हितमज्ञातमकृतात्मभिः । कस्मिन्निव । पांसुरे इव लुप्तोपमानं । पांसुले रजस्वले प्रदेशे निहितं यथा न ज्ञायते तद्वत् । तदुक्तं 'तद्विष्णोः परमं पदᳪ सदा पश्यन्ति सूरयः' (अध्या० ६ । ५) इति । स्वाहा तस्मै विष्णवे हविर्दत्तम् ॥ १५ ॥

षोडशी। ।
इरा॑वती धेनु॒मती॒ हि भू॒तᳪ सू॑यव॒सिनी॒ मन॑वे दश॒स्या । व्य॑स्कभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखै॒: स्वाहा॑ ।। १६ ।।
उ० द्वितीयस्यानसो वर्त्मनि जुहोति । इरावती । वैष्णवी त्रिष्टुप् । हे विष्णो, यस्मात्तव प्रशासनमनुकुर्वन्त्यौ द्यावापृथिव्यौ इरावती सस्यवत्यौ । धेनुमती धेन्वादिभिः पशुभिः तद्वत्यौ । हिशब्दो यस्मादर्थे व्याख्यातः । एवंभूतं भूताम् अभूतामिति पुरुषव्यत्ययः । संवृत्ते इत्यर्थः । सूयवसिनी शोभनयवसवत्यौ सुसस्यवत्यौ । मनवे यजमानाय । दशस्या दात्र्यौ यज्ञसाधनानाम् । अतः कारणात् व्यस्कभ्नाः । स्कभ्नोतिः स्तम्भनार्थः । स्तम्भितवानसि । । रोदसी द्यावापृथिव्यौ एते । किंच । दाधर्थ धारयसि । पृथिवीं द्यां चेत्यध्याहारः । अभितः इतश्चेतश्च । मयूखैः रश्मिभिः । । यस्मात्त्वमेवंप्रभावस्तस्मात्त्वां स्तुम इति शेषः ॥ १६ ॥
म० 'स्रुक्स्थाल्यौ प्रतिगृह्य प्रतिप्रस्थातोत्तरस्येरावती इति ' पूर्ववदिति' (का० ८ । ३ । ३५) यथा दक्षिणशकटदक्षिण