पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाजसनेयिमाध्यन्दिन शुक्लयजुर्वेदसंहिता।

उवटभाष्य-महीधरभाष्यसंवलिता।

प्रथमोऽध्यायः।

उवटभाष्यम्।

ॐनमः श्रीवेदपुरुषाय ।

हृदयं दक्षिणं चाक्षि मण्डलं चाधिरुह्य यः।
चेष्टते तमहं नौमि ऋग्यजुःसामविग्रहम् ॥ १ ॥
आदित्याल्लब्धवान्यस्तु शाखाः पञ्चदशापराः ।
तं याज्ञवल्क्यं वन्देऽहं मन्त्रभाष्यप्रसिद्धये ॥ २ ॥
गुरुतस्तर्कतश्चैव तथा शातपथश्रुतेः ।
(१)ऋषीन्वक्ष्यामि मन्त्राणां देवताश्छन्दसं च यत् ॥३॥
ऋचो यजूंषि सामानि तथार्थः पदवाक्ययोः।
श्रुतयश्चात्र याः प्रोक्ता योऽर्थवादश्च कर्मणः ॥ ४ ॥

तत्रहि पूर्वस्मिन्कल्पे विशिष्टकर्मजनितस्मृतिसंस्कारसंतानानुच्छित्तिधर्माणः सुप्तप्रबुद्धन्यायेन हिरण्यगर्भप्रभृतयः कल्पादौ सह विद्ययाभिव्यज्यमानाः स्मर्तारो द्रष्टारश्च ऋषय उच्यन्ते । सोऽयं (२)हिरण्यगर्भपरम्परयाभिव्यक्तो नित्यो वेदः । तेच श्रुतौ व्यज्यमाना ज्ञायन्ते । तद्यथा। 'तत एतं परमेष्ठी प्राजापत्यो यज्ञमपश्यद्यद्दर्शपूर्णमासौ' इति । तत्र दर्शपूर्णमासद्रव्यदेवतामन्त्रादि परमेष्ठिना दृष्टमित्यर्थः। तथा 'दध्यङ्
१ ऋषीन्वच्मीह. २ हिरण्यगर्भपरम्परा ब्रह्मपङ्क्तिः
ह वा आथर्वण एतं शुक्रमेतं यज्ञं विदांचकार' इत्युपक्रम्य 'नतदुहाश्विनोरनु श्रुतमास' इत्येवमादिनेतिहासेन प्रवर्ग्यगतानां मन्त्राणां दध्यङ्ङाथर्वण ऋषिरिति गम्यते । ऋषिश्च ज्ञातव्य इति श्रुतिर्दर्शयति 'प्रजापतिः प्रथमां चितिमपश्यत्' इत्युपक्रम्य 'स यो हैतदेवं चितीनामार्षेयं वेद' इत्यादिना ग्रन्थेन फलं दर्शयति ।अथ देवता मन्त्रवाक्याभिधेयाः। यथा--अग्निर्मूर्धा दिवः ककुदित्यत्राग्निः । इषेत्वेति शाखा । ननु अग्निर्मूर्धेत्यत्राग्नेर्महाभाग्यत्वाद्देवतात्वमुपपद्यते शाखादीनां तु स्थावरत्वाद्देवतात्वं दुर्लभमिति यश्चोदयेत्तंप्रति ब्रूमः । यस्य हि यत्र हविर्भाक्त्वं स्तुतिभाक्त्वं वा विद्यते सा तत्र देवता नतु रूढ्या। एवं च सति शाखादीनां देवतात्वमुपपद्यत एव । (२)यदुक्तं स्थावरत्वादित्यादि । अत्र ब्रूमः। अधिष्ठात्र्योऽत्र देवता विद्यन्ते। प्रतिमाभूतास्तु शाखादयस्ताः फलं साधयन्तीत्यदोषः। मन्त्रस्य वाच्यं देवतेति श्रुतिर्दर्शयति 'आशुः शिशानो वृषभो न भीमः' इत्युपक्रम्य 'ऐन्द्र्योऽभिरूपाः' इतीन्द्रस्य देवतात्वं दर्शयति । छन्दोपि ज्ञेयमित्यनेनैव दर्शयति येनैवमाह । 'दक्षिणतोऽसुरान्रक्षाᳪसि त्वाष्ट्रान्यपहन्ति त्रिष्टुब्भिर्वज्रो वै त्रिष्टुप्' इत्युपक्रम्य 'ता द्वाविंशतिर्गायत्र्यः संपद्यन्ते(३) तदा
१ हविर्भुक्तिः . २ यत्तूक्तं. ३ पठ्यन्ते.


महीधरभाष्यम् ।

प्रणम्य लक्ष्मीं नृहरिं गणेशं भाष्यं विलोक्यौवटमाधवीयम् ।
यजुर्मनूनां विलिखामि चार्थं परोपकाराय निजेक्षणाय ॥ १ ॥
दूरादसूयां निर्धूय कृपां कृत्वा ममोपरि ।
विलोक्यो वेददीपोऽयं बुद्धिमद्भिर्द्विजोत्तमैः ॥ २ ॥
तत्रादौ ब्रह्मपरम्परया प्राप्तं वेदं वेदव्यासो मन्दमतीन्मनुष्यान्विचिन्त्य तत्कृपया चतुर्धा व्यस्य ऋग्यजुःसामाथर्वाख्यांश्चतुरो वेदान् पैलवैशम्पायनजैमिनिसुमन्तुभ्यः क्रमादुपदिदेश ते च स्वशिष्येभ्यः । एवं परम्परया सहस्रशाखो वेदो जातः । तत्र व्यासशिष्यो वैशम्पायनो याज्ञवल्क्यादिभ्यः स्वशिष्येभ्यो यजुर्वेदमध्यापयत् । तत्र दैवात्केनापि हेतुना क्रुद्धो वैशम्पायनो याज्ञवल्क्यं प्रत्युवाच मदधीतं त्यजेति । स योगसामर्थ्यान्मूर्तां विद्यां विधायोद्ववाम । वान्तानि यजूंषि गृह्णीतेति गुरूक्ता अन्ये वैशम्पायनशिष्यास्तित्तिरयो भूला यजूंष्यभक्षयन् । तानि यजूंषि बुद्धिमालिन्यात्कृष्णानि जातानि । ततो दुःखितो याज्ञवल्क्यः सूर्यमाराध्य अन्यानि शुक्लानि यजूंषि प्राप्तवान् । तानि च जाबालबौधेयकाण्वमाध्यन्दिनादिभ्यः पञ्चदश

१ ऋषीन्वच्मीह. २ हिरण्यगर्भपरम्परा ब्रह्मपङ्क्तिः.