पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

होतायक्षदेकादश देवंबर्हिर्द्वादश पुनरप्येवं चत्वारः षट्चत्वारिᳪशत् ॥४॥४६॥२८॥ समिद्धोअञ्जन्नेकादश यदक्रन्दस्त्रयोदश समिद्धो अद्य द्वादश केतुंकृण्वँश्चतुर्विᳪशतिश्चत्वारः षष्टिः ॥ ४ ॥६० ॥ २९ ॥ देवसवितः षट् तपसे कोलालᳪ षोडश द्वौद्वाविᳪशतिः ॥ २॥ २२ ॥ ३० ॥ सहस्रशीर्षा षोडशाद्भ्यः संभृतः षट् द्वौद्वाविᳪशतिः॥२॥२२॥ ॥३१॥ तदेव सप्त वेनस्तन्नव द्वौ षोडश ॥२॥ १६ ॥ ३२॥ अस्याजरासः सप्तदशापश्चिद्द्वावादश विभ्राट् चतुर्दश प्रवावृज एकादश प्रवायुप्रवीरया पञ्चदशकावानस्त्रयोदश सप्तसप्तनवतिः॥ ७ ॥ ९७ ॥ ३३ ॥ यज्जाग्रतः पञ्च नद्यः सोमोधेनुमाकृष्णेन पूषन्तव दशका नतदष्टौ षडष्टापञ्चाशत् ॥ ६ ॥ ५८ ॥ ३४ ॥ अपेतो दशाद्मं द्वादश द्वौद्वाविᳪशतिः ॥ २ ॥२२॥३५॥ ऋचं वाचᳪषोडश द्यौः शान्तिरष्टौ द्वौचतुर्विᳪशतिः॥२॥२४॥३६॥ देवस्यत्वा दश यमायत्वैकादशद्वावेकविᳪशतिः ॥२॥ २१ ॥३७॥ देवस्यत्वाष्टौ यमायत्वा क्षत्रस्यत्वा दशकौ त्रयोऽष्टाविᳪशतिः ॥३॥२८॥३८॥ स्वाहाप्राणेभ्यः षडुग्रश्च सप्त द्वौ त्रयोदश ॥ २॥१३॥३९॥ ईशावास्यमष्टावन्धं तमो नव द्वौ सप्तदश ॥ २॥१७॥४०॥ दशाध्याये समाख्यातानुवाकाः सर्वसंख्यया । शतं दशानुवाकाश्च नवान्ये च मनीषिभिः ॥ १ ॥ सप्तषष्टिश्चितो ज्ञेया सौत्रैर्द्वाविंशतिस्तथा । अश्व एकोनपञ्चाशत्पञ्चत्रिंशत्खिले स्मृताः ॥ २ ॥ शुक्रियेषु तु विज्ञेया एकादश मनीषिभिः । एकीकृत्य समाख्यातं त्रिशतं त्र्यधिकं मतम् ॥ ३ ॥
इत्यनुवाकसूत्राध्यायः संपूर्णः ॥