पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विंशी।
नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे॑ ।
अ॒न्याँस्ते॑ अ॒स्मत्त॑पन्तु हे॒तय॑: पाव॒को अ॒स्मभ्य॑ᳪ शि॒वो भ॑व ।। २० ।।
उ० नमस्ते हरसे इति व्याख्यातम् ॥ २० ॥
म० नमस्ते व्याख्याता [अ० १७ । क० ११] ॥ २० ॥

एकविंशी।
नम॑स्ते अस्तु वि॒द्युते॒ नम॑स्ते स्तनयि॒त्नवे॑ । नम॑स्ते भगवन्नस्तु॒ यत॒: स्व॒: स॒मीह॑से ।। २१ ।।
उ० नमस्ते द्वे अनुष्टुभौ । नमः ते तुभ्यं अस्तु । विद्युते विद्युद्रूपाय । नमस्ते स्तनयित्नवे स्तनयित्नुरूपाय । नमः ते हे भगवन् , अस्तु । यतः यस्मात् स्वः स्वर्गं लोकं गन्तुम् समीहसे चेष्टसे । अमर्त्यस्त्वमित्यभिप्रायः ॥ २१ ॥
म० द्वे अनुष्टुभौ विद्युत्स्तनयित्नुरूपभगवद्देवते । हे भगवन् महावीर, विद्युते विद्युदूपाय ते तुभ्यं नमोऽस्तु । स्तनयित्नवे स्तनयित्नुर्गर्जितं तद्रूपाय ते नमोऽस्तु । यतः कारणात् स्वः स्वर्गं गन्तुं त्वं समीहसे चेष्टसे अतस्ते तुभ्यं नमोऽस्तु ॥२१॥

द्वाविंशी।
यतो॑-यतः स॒मीह॑से॒ ततो॑ नो॒ अभ॑यं कुरु । शं न॑: कुरु प्र॒जाभ्योऽभ॑यं नः प॒शुभ्य॑: ।। २२ ।।
उ० यतो यतः यस्माद्यस्मात् दुश्चरितात् अपाकर्तुं समीहसे चेष्टसे ततस्ततः नः अस्माकम् अभयं भयरहितं कुरु । किंच । शं नः सुखमस्माकम् कुरु प्रजाभ्यः । अभयं नः पशुभ्यः कुरु ॥ २२ ॥
म० हे महावीर, यतो यतः यस्माद्यस्माद् दुश्चरितात्त्वं समीहसे अस्मास्वपकर्तुं चेष्टसे ततस्ततो नोऽस्माकमभयं कुरु । किंच नोऽस्माकं प्रजाभ्यः शं सुखं कुरु । नोऽस्माकं पशुभ्यः चाभयं भीत्यभावं कुरु ॥ २२ ॥

त्रयोविंशी।
सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ।। २३ ।।
उ० इत उत्तरं यजूंषि व्याख्यायन्ते आअध्यायात् । तत्र सुमित्रिया न इति व्याख्यातम् ॥ २३ ॥
म० यजुः । व्याख्यातम् [ अ० ६ । क० २२ ] ॥ २३ ॥

चतुर्विंशी।
तच्चक्षु॑र्दे॒वहि॑तं पु॒रस्ता॑च्छु॒क्रमुच्च॑रत् । पश्ये॑म श॒रद॑: श॒तं जीवे॑म श॒रद॑: श॒तᳪ शृणु॑याम श॒रद॑: श॒तं प्र ब्र॑वाम श॒रद॑: श॒तमदी॑नाः स्याम श॒रद॑: श॒तं भूय॑श्च श॒रद॑: श॒तात् ।। २४ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां षट्त्रिंशोऽध्यायः ॥ ३६ ॥
उ० तच्चक्षुः । योयं महावीरोऽस्माभिः स्तुतः । तत् आदित्यरूपं चक्षुः । देवहितं देवैर्निहितं स्थापितम् देवानां वा हितम् । पुरस्तात् प्राच्यां दिशि । शुक्रं शुक्लम् असंसृष्टं पाप्मभिः । शोचिष्मद्वा । उच्चरत् उदितम् । तत्प्रसादाच्च । पश्येम शरदः शतम् । जीवेम शरदः शतम् । शृणुयाम शरदः शतम् । प्रब्रवाम शरदः शतम् । अस्खलितवागिन्द्रिया भवामः । अदीनाः स्याम शरदः शतम् । भूयश्च बहुतरं कालं च शरदः शतात् ॥ २४ ॥ इति उवटकृतौ मन्त्रभाष्ये षट्त्रिंशोऽध्यायः ॥ ३६ ॥
म० सूर्यदेवत्या ब्राह्मी त्रिष्टुप् । एतैर्मन्त्रैर्यो महावीरोऽस्माभिः स्तुतः तत् चक्षुः जगतां नेत्रभूतमादित्यरूपं पुरस्तात् पूर्वस्यां दिशि उच्चरत् उच्चरति उदेति 'इतश्च लोपः परस्मैपदेषु (पा० ३।४ । ९७ ) इतीकारलोपः । कीदृशं तत् । देवहितं - देवैर्हितं स्थापितम् । यद्वा देवानां हितं प्रियम् शुक्रं शुक्लं पापासंसृष्टं शोचिष्मद्वा । तस्य प्रसादात् शतं शरदः वर्षाणि वयं पश्येम शतवर्षपर्यन्तं वयमव्याहतचक्षुरिन्द्रिया भवेम । प्रार्थनायां लिङ् । अत्यन्तसंयोगे द्वितीया । शतं शरदः जीवेम अपराधीनजीवना भवेम । शतं शरदः शृणुयाम स्पष्टश्रोत्रेन्द्रिया भवेम । शतं शरदः प्रब्रवाम अस्खलितवागिन्द्रिया भवेम । शतं शरदः अदीनाः स्याम न कस्याप्यग्रे दैन्यं कुर्याम । शतात् शरदः शतवर्षोपर्यपि भूयश्च बहुकालं पश्येमेत्यादि योज्यम् ॥ २४ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे।
अध्यायः शान्तिपाठार्थः षट्त्रिंशोऽयं प्रकाशितः ॥ ३६ ॥


सप्तत्रिंशोऽध्यायः।
तत्र प्रथमा ।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ द॑दे॒ नारि॑रसि ।। १ ।।
उ० महावीरसंभरणं अभ्यादानम् । देवस्य स्वेति व्याख्यातम् । नारिरसीति विशेषः ॥ १॥
म०. 'देवस्य त्वेत्यभ्रिमादायौदुम्बरीं वैकङ्कतीं वारत्निमात्रीᳪ सव्ये कृत्वा दक्षिणेनालभ्य जपति युञ्जत इति' (का. | २६ । १ । ३)। उदुम्बरतरूत्थां विकङ्कततरूत्थां वा हस्तप्रमाणामभ्रिं देवस्य त्वा नारिरसीति मन्त्रेणादाय वामहस्ते तां कृत्वा दक्षिणहस्तेन स्पृष्ट्वा युञ्जते मन इति मन्त्रं जपतीति सूत्रार्थः । देवस्य त्वा । अभ्रिदेवत्यं यजुः । हे अभ्रे, सवितुर्दै