पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वृत्तः स्थितो भाववृत्तः परमात्मा सोऽस्या देवता । आग्रयणग्रहे विनियोगः क्रमपाठाल्लभ्यते ततोऽधियज्ञं तावद्ख्या>तयते । 'आधवनीयादुन्नेता निग्राभ्यास्वासिञ्चति ताः पवित्रे यजमानस्ततो ग्रहग्रहणमा ध्रुवादिति' ( का० ९ । ५। १७ ) कात्यायनेनोक्तं तदभिप्रायेणोच्यते । एषां पूयमानसोमानां रश्मिः यमनात् ऋजीषादिकल्कनियामको दशापवित्रलक्षणः तिरश्चीनः तिर्यङ् एव विततो विस्तारितः उद्गातृभिरिति शेषः । तस्मिन् दशापवित्रे सोमः प्रक्षिप्तः सन् दशापवित्रादधश्च आसीत् उपरि च आसीत् । स्विच्छब्दौ चार्थो । उपरि स्विदासीदितीकारः प्लुतः । किंच तत्रैके पदार्था ग्रहचमसाधवनीयद्रोणकलशादयो रेतोधा आसन् रेतो जगदुत्पत्तिबीजं सोमं दधति धारयन्ति ते रेतोधाः सोमाधारभूताः आसन् । 'यज्ञाद्वै प्रजाः प्रजायन्ते' इति श्रुतेर्जगद्बीजत्वं सोमस्य । तथाऽपरे पदार्थाः सोमरसरूपास्तत्राधेयाः सन्तो महिमानः महान्तः उत्कृष्टा आसन् । आधाराधेयभावेन सर्वोऽयं यज्ञात्मैव स्थित इति भावः । 'ब्रह्मार्पणं ब्रह्म हविः' इति स्मृतेः । किंच स्वधान्नं तद्रूपः अवस्तात् अवरो होमात् प्राक् नीच आसीत् । प्रयतिः प्रयतते प्रयतिः प्रयत्नवान् होमानन्तरं लब्धफलकः सन् परस्तात् परः उत्कृष्टः आसीत् । अथाधिदैवतं व्याख्या । एषां प्रसिद्धानां सूर्यरश्मीनां मध्ये एकः सुषुम्णाख्यो रश्मिः तिरश्चीनः विततः विस्तृतः सन् किम् द्युलोकादधःस्वित् आसीत् उतोपरिस्विदासीत् । स्विदिति वितर्के । 'विचार्यमाणानाम्' (पा. ८ । २ । ९७ ) इति प्लुतः । किंच स रश्मिः रेतोधाः रेतसो विश्वबीजस्योदकस्य धारयिता आसीत् । व्यत्ययेनैकवचनम् । तथाच श्रुतिः ‘सूर्यस्य ह वा एको रश्मिर्वृष्टिवनिर्नाम येनेमाः सर्वाः प्रजा बिभर्ति' इति । अन्ये रश्मयो महिमानः माहात्म्याधायका आसन् विश्वप्रकाशत्वेन । किंच स्वधान्ननिष्पादकः स एव रश्मिः अवस्तात् अवरो भूम्यभिमुखः प्रयतिः प्रयत्नात्सोर्ध्वमुखः सन् परस्तात् परः उत्कृष्टः दर्शनमात्रेण देवानां तृप्तिदः । तथोक्तं छान्दोग्यश्रुतौ 'असौ वा आदित्यो देवमध्वि'त्युपक्रम्य 'न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति' ( छां० ५।१।६ ) इति । अथाध्यात्मपक्षे व्याख्या । नासदासीदिति सप्तर्चेऽध्यात्मप्रतिपादके सूक्ते (ऋ. ८। ७ । १७) बह्वृच इमामृचं पठन्ति तत्र । नासदासीदिति निरस्तसमस्तप्रपञ्चां प्रलयावस्थामनूद्य विश्वबीजमविद्योक्ता । कामस्तदग्रे समवर्ततेति पादेन च काम उक्तः । मनसो रेतः प्रथमं यदासीदिति पादेन पुण्यापुण्यात्मकं कर्मोक्तम् । एवमविद्याकामकर्माणि सृष्टिहेतून्युक्त्वा तेषां स्वकार्यजनने शैघ्र्यमाह तिरश्चीन इति । एषामविद्याकामकर्मणां रश्मिरिव रश्मिः कार्यवर्गो वियदादि विततः विस्तृतः सन् तिरश्चीनः तिर्यगवस्थितो मध्ये स्थितः अधश्चासीदुपरि चासीत् । सूर्यरश्मिवद्युगपत्सर्वं व्यापेत्यर्थः । तदेव विभजते रेतोधा इति । सृष्टे कार्यवर्गे केचन रेतोधाः रेतसो बीजभूतस्य कर्मणो विधातारः कर्तारो भोक्तारश्च जीवाः आसन् । अन्ये महिमानः महान्तो विपुला वियदादयो भोग्या आसन् । महिमान इति स्वार्थे इमनिच् । एवं मायायामीश्वरः सर्वं जगत्सृष्ट्वा स्वयं चानुप्रविश्य भोक्तृभोग्यरूपेण विभागं कृतवानित्यर्थः । तयोर्भोक्तृभोग्ययोर्मध्ये स्वधान्नं भोग्यप्रपञ्चोऽवस्तादवरो निकृष्ट आसीत्। प्रयतिः प्रयतिता भोक्ता परस्तात् परः उत्कृष्टः भोक्तृप्रपञ्चाधीनं भोग्यप्रपञ्चं कृतवानित्यर्थः । 'विभाषा परावराभ्याम्' (पा० ५। ३ । २९) इति प्रथमार्थेऽस्तातिप्रत्ययः । 'अस्ताति च' (पा० ५। ३ । ४० ) इत्यवरशब्दस्यावादेशः । 'एतद्वा इदᳪं᳭ सर्वमन्नं चैवान्नादश्च' इति श्रुतेः ॥ ७४ ॥

पञ्चसप्ततितमी ।
आ रोद॑सी अपृण॒दा स्व॑र्म॒हज्जा॒तं यदे॑नम॒पसो॒ अधा॑रयन् ।
सो अ॑ध्व॒राय॒ परि॑ णीयते क॒विरत्यो॒ न वाज॑सातये॒ चनो॑हितः ।। ७५ ।।
उ०. आरोदसी जगती । वैश्वानर उच्यते । आ अपृणत् आपूरयति रोदसी द्यावापृथिव्यौ । आ स्वः आपूरयति च स्वः आदित्यम् महत् महान्तम् । कदा आपृणत् । यत् यदा जातं जातमात्रम् एनं वैश्वानरम् अपसः अपस्विनः कर्मवन्तः अधारयन् कर्मणि स्थापितवन्तः । सो अध्वराय स एवायमग्निः अध्वरा यज्ञार्थं परिणीयते । कविः क्रान्तदर्शनः । कथमिव अत्योन अश्वइव । वाजसातये अन्नसंभजनाय । चनोहितः चनसि अन्ने स्थापितः। अश्वो हि घृतादिभिरभिघारितेनान्नेन पोष्यते अतस्तेनोपमीयते ॥ ७५ ॥
म० तमेव वैश्वानराख्यं भोक्तारं परमात्मानं स्तौति । विश्वामित्रदृष्टा जगती वैश्वानरदेवत्या । यत् यदा जातमरणीत उत्पन्नमात्रमेनं वैश्वानरमपसोऽपस्विनः कर्मवन्तो यजमाना अधारयन् कर्मणि स्थापितवन्तः । तदा स रोदसी द्यावाभूमी आ सर्वतः अपृणत् पूरयति स्म । स्थावराणां प्रस्तरादौ तदुपलब्धेः । न केवलं रोदसी किंतु महत्प्रभूतं स्वः अन्तरिक्षमापृणत्सूर्यात्मना । त्रैलोक्यं जाठरात्मना पूरितमित्यर्थः । गार्हपत्यादीनां लोकत्वं श्रुत्योक्तम् 'अयं वै लोको गार्हपत्यो द्यौराहवनीय' इति । उक्तार्थमेव विवृणोति स इति । सोऽग्निरध्वराय यागाय परिणीयते सर्वतोऽतिप्रणीताग्नीध्रीयादिधिष्ण्यादिषु प्रकर्षेण प्रापय्यते । नयने दृष्टान्तः । अत्यो न यथाश्वो वाजसातयेऽन्नलाभाय सर्वतो नीयते । राजाश्ववान्भोगजातं लभते यथा तद्वद्विप्रोऽग्निं सेवमानो ब्रह्मलोकान्तभोगानिति भावः । कीदृशोऽग्निः । कविः सर्वज्ञः चनोहितः चन इत्यन्ननामेति यास्कः । चनसेऽन्नाय भोग्याय हितः सर्वभोगसंपादक इत्यर्थः ॥ ७५ ॥

षट्सप्ततितमी।
उ॒क्थेभि॑र्वृत्र॒हन्त॑मा॒ या म॑न्दा॒ना चि॒दा गि॒रा । आ॒ङ्गू॒षैरा॒विवा॑सतः ।। ७६ ।।